________________
निशान्त्ययामे जागर्या, गुरोश्चावश्यकक्षणे । उत्सर्गो देवगुर्वादिनतिः खाध्यायनिष्ठता ॥ ९१ ॥ निशाया-रात्रेरन्त्ययामे-चतुर्थप्रहरे 'जागर्या' जागरणं निद्रात्याग इत्यर्थः । सापेक्षयतिधर्मो भवतीति योज-18 ना, अग्रेऽपि सर्वत्रावसेया । जागरणविधिश्च-"जामिणिपच्छिमजामे, सव्वे जग्गंति बालवुड्डाई । परमिट्टिपरम-181 मंतं, भणंति सत्तठ्ठवारा उ ॥१॥” इत्यादिविशेषगृहस्थधर्माधिकारे प्रदर्शित एव । निशान्त्ययामे जागरणं किमविशेषेण सर्वेषामेव ? उत केषांचिदेवेति जिज्ञासायामाह-'गुरोः' प्रव्राजकस्य दिगाचार्यादेर्वा, चकारात् ग्लानादेः 'आवश्यकक्षणे' प्रतिक्रमणकरणावसरे जागा, तत्र गुरोस्तृतीयपहरेऽस्खापस्य वक्ष्यमाणत्वात् ग्लानादेस्तु शरीरमान्द्यात् प्रतिक्रमणवेलायामुचितमेव जागरणं, उक्तमपि-"सब्वेवि पढमयामे, दुन्नि अ वसहाण आइमा जामा । तइओ होइ गुरूणं, चउथे सव्वे गुरू सुअइ ॥१॥” इति, प्रक्रमणवेला च तत्परिसमाप्तिदशोपकरणप्रत्युपेक्षणासमनन्तरभाविसूर्योदयपरिमेया, यतः-"आवस्सयस्स समए, णिद्दामुई चयंति आयरिआ । तह तं कुणंति जह दसपडिलेहाणंतरं सूरो ॥१॥” इति । जागरणानन्तरं कर्त्तव्यमाह-'उत्सर्गः' इति कायोत्सर्गः, स चेर्यापथिकीप्रतिक्रमणपूर्वकः कुखप्नदुःखमनिवारणनिमित्तः, प्राणिवधादिकुखमभावे शतोच्छ्वासमानो मैथुनकुस्खमभावे तु चतुरुद्योतकरोपर्येकनमस्कारचिन्तनादष्टशतोच्छ्वासमानोऽवसेयः, यतो दिनचर्यायाम्"इरि पडिकमंतो, कुसुमिणदुसुमिणनिवारणुस्सग्गं । सम्मं कुणंति निजिअपमायणिद्दा महामुणिणो ॥१॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org