SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सप्तधौघिकी धर्मसंग्रहे भवतीति तदनन्तरं सा निरूपणीयेति पञ्चमं द्वारं ५।आ-अपराधमर्यादया लोचनं-दर्शनं आचार्यादेः पुरत अधिकारः इत्यालोचना प्रतिसेवायां सत्यां साऽवश्यं मुमुक्षुणा कर्त्तव्येति तदनन्तरं सा निरूपणीयेति षष्ठं द्वारं शोधन शुद्धिः-शिष्येणालोचितेऽपराधे तदुचितं गुरोः प्रायश्चित्तप्रदानमित्यर्थः, आलोचनोत्तरकालं योग्यं प्रायश्चित्तं प्रदीयत इति तदनन्तरं तदुपन्यास इति सप्तमं द्वारं ७॥ इति अमुना प्रकारेण औधिकी-ओघनिष्पन्ना सामाचारी ॥२०॥ ओघनियुक्तिप्रतिपादितक्रियासमुदाय इत्यर्थः, 'मता' प्रतिपादिता द्वारनिर्देशेनेति गम्यं । ओघनियुक्तिरुपौघसामाचार्या इमानि सप्त द्वाराणीति तात्पर्यम् १ । अत्र च प्रतिलेखनाप्रतिलेखकप्रतिलेख्यवक्तव्यताऽतिगहना क्षेत्रादिविषयौघनिर्युक्तौ बहुविधोक्ता, सा च बहुविस्तरत्वान्नेह प्रतन्यते, विस्तरार्थिना तु तत एवावधार्या । इह तु दिनचर्याया एवं प्रतिदिनोपयोगित्वादुपकरणविषया सोच्यते, पश्चवस्तुकेऽपीत्थमेवाभिहिता, यतः-"उवगरणगोअरा पुण, इत्थं पडिलेहणा मुणेअव्वा । अप्पडिलेहिअदोसा, विण्णेआ पाणिघायाई ॥१॥” इति, 'इत्थं |ति प्रतिदिनक्रियायां, तत्र ग्रंथे दशभिरैः प्रतिदिनक्रियाया एव प्रक्रान्तत्वात् । तथाहि-“पडिलेहणा १ पमजण २, भिक्खा ३ ऽऽयरि ४ ऽऽलोअ५ भुंजणा ६ चेव । पत्तगधुवण ७ विआरा ८, थंडिल९ आवस्सयाईआ १०॥१॥” इत्यलं प्रसङ्गेन । ९० । साम्प्रतं उपकरणविषया प्रतिलेखनाद्योघसामाचारी येन क्रमेण कर्त्तव्या तं क्रममपि दिनचर्यानुरोधेनैव प्रतिपादयन्नाह ॥२०॥ Jain Education into For Private Personel Use Only Naw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy