________________
Jain Education Inte
ऽपि विशिष्टश्रुताध्ययनक्रमलभ्येति प्रान्त उक्ता ३ ॥ ८९ ॥ इत्थं त्रिविधां सामाचारीं नामतोऽभिधाय विशेषतस्ता अभिधित्सुः प्रथममोघसामाचारीस्वरूपं द्वारनिर्देशेन दर्शयति
प्रतिलेखनिका १ पिण्डो २ पध्य ३ नायतनानि ४ च । प्रतिसेवा ५ ऽऽलोचने ६ च, शुद्धि ७त्यधिक मता ॥ ९० ॥
'प्रतिलेखने'ति प्रतिपूर्वक (स्य) लिख-अक्षरविन्यासे इत्यस्य भावे ल्युडन्तस्य प्रयोगः, 'उपसर्गेण धात्वर्थ' इति न्यायादागमानुसारेण क्षेत्रादेर्निरूपणेत्यर्थः । सर्वक्रियाणामेतत्पूर्वकत्वादियमेव निरूपणीयेति प्रथमं द्वारम् । अस्याश्च प्रतिलेखकप्रतिलेख्यनान्तरीयकत्वात्तद्वयमप्यत्रैव निरूपणीयं १ । पिण्डः - सङ्घातः दोषविशुद्धाहार इत्यर्थः, प्रतिलेखनोत्तरं तग्रहणं भवतीति तदनन्तरं स निरूपणीय इति द्वितीयं द्वारं २ । उप-सामीप्येन सँयमं दधाति - धारयति पोषयति वेत्युपधिः, स च वस्त्रपात्रादिरूपः पिण्डो हि न पात्रपात्रबन्धादिकमन्तरेण ग्रहीतुं शक्यत इति तन्निरूपणानन्तरं गणनाप्रमाणप्रमाणप्रमाणद्वारेण निरूपणीयमिति तृतीयं द्वारम् ३ । न आयतनमनायतनं-स्त्रीपशुपण्डकादिसंसक्तं, गृहीत उपधिः पिण्डश्च न वसतिमन्तरेणोपभोक्तुं शक्यत इति तन्निरूपणानन्तरं ( अनायतन) वर्जनप्रतिपक्षायतनसेवनमुखेन तद्वाच्यमिति चतुर्थं द्वारं ४ । प्रतिसेवा - प्रतिसेवना | संयमानुष्ठानविरुद्धाचरणमित्यर्थः, प्रतिलेखनाद्यनायतनान्तमाचारं कुर्वतः कदाचित् कचित् कश्चिदतिचारो
For Private & Personal Use Only
jainelibrary.org