________________
धर्मसंग्रह अधिकारः
॥१९॥
योपशमादिसमुत्थः परिणामविशेषो निश्चयतः सामाचारी, एवं च तदाचरणं विमापि तदनुत्प(दुपप)त्तिः, लिङ्गं सामाचारी विनापि लिङ्गिनो दर्शनात्। व्यवहारतस्तु समाचरणविशेष एव तथा, तत्रापि भावपूर्वकमाचरणं शुद्धव्यवहारेण,
भेदः अशुद्धेन तु तेन आचरणमात्रमिति विशेषः । कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः] त्रैविध्यमेव दर्शयति-'ओघिकी १ दशधाख्या २ तथा पदविभागयुगिति ३' यतः "सामाचारी तिविहा, ओहे दसहा पयविभागे"त्ति तत्र ओघ:सामान्यं, तद्विषया सामाचारी सामान्यतः सङ्केपाभिधानरूपौघनियुक्तिप्रतिपादितक्रियाकलापः, कचिद्वाच्यवा-1 चकयोरभेदादोघनियुक्तिरप्योघसामाचारीत्युच्यते।एवमग्रेऽपि ज्ञेयं । दशधेत्याख्या-अभिधानं यस्याःसा इच्छाकारादिदशप्रकारलक्षणा दशधाख्या २, पदयोरुत्सर्गापवादयोर्विभागो-यथास्थानं निवेशस्तेन युक्-युक्ता सामाचारी छेदसूत्ररूपा पदविभागसामाचारीति । तत्र 'कारणापोह्यो विधिरुत्सर्गः' 'कारणिको विधिरपवादः' इति। 'तस्याः' त्रिविधायाः सामाचार्याः 'सम्यग् विधिना तत्तत्सूत्रोक्तेन 'प्रपालनं' प्रकर्षेण योगत्रयोत्कर्षेणाचरणं, || सापेक्षो यतिधर्मो भवतीति पूर्ववदन्वयः । इह च तत्कालप्रव्रजितानां तावत्श्रुतपरिज्ञानशक्तिविकलानामायुष्कहासमपेक्ष्यौघसामाचारी नवमात्पूर्वात् तृतीयवस्तुन आचाराभिधानात् तत्रापि विंशतितमात् प्राभृतात् ॥१९॥ तत्राप्योघप्राभृतमाभृतान्निव्यूढा । इयं च प्रथमदिवस एव दीयते, प्रतिदिवसक्रियोपयोगिनीत्वादिति प्रथममुक्ता? । दशधा पुनः षड्विंशतितमादुत्तराध्ययनात्स्वल्पतरकालप्रव्रजितानां परिज्ञानार्थं नियूढेति ततोऽस्या उपयोग इति तथोक्ता २ । दृष्टिवादगता पविभागसामाचारी तु प्रभूतदिवसलभ्या तदुद्धृतकल्पव्यवहाराख्या
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org