________________
| शेषः । तत्र सामाचारीति कः शब्दार्थः ?, उच्यते, समाचरणं समाचारः शिष्टाचरितक्रियाकलापस्तस्य भावो 'गुणवचनब्राह्मणादिभ्यः कर्मणि ष्यञ्' (पा-५ - १ - १२४ ) सामाचर्य्यं पुनः स्त्रीत्वविवक्षायां 'षिङ्गौरादिभ्यश्च (पा-४-१-४१) इति ङीषू 'यस्ये' ति च (पा० ६-४-१४८) इत्यकारलोपः यस्य हलः (पा ६-४-४१) इति तद्धि| तयलोपः परगमने सामाचारीति सिद्धं । [ इयं च नयविभागेन विविच्यमाना सप्तधा भिद्यते, तथाहि -सङ्ग्रहमते | आत्मा सामाचारी, न त्वनात्मा, आत्मनि विशेष्ये सकलसामाचारीविशेषणात् । व्यवहारमते च तां समाचर| न्नात्मा सामाचारी, नत्वसमाचरन्, असमाचारवत्यात्मन्यतिप्रसक्तेः । ऋजुमते च समाचरन्नप्युपयुक्तः सामाचारी न त्वनुपयुक्तः, व्यवहारसमाचरणशालिनि द्रव्यलिङ्गिन्यतिप्रसक्तेः, उपयुक्तो नाम ज्ञेयप्रत्याख्येयपरिज्ञापर इत्य| र्थः । शब्दमते च उपयुक्तोऽपि षट्सुसंयतः न त्वसुसंयतः, सामाचारीपरिणामप्राप्तानामविरत सम्यग्दृष्ट्यादीनामपि तथाप्रायत्वेन तत्रातिप्रसक्तेः । समभिरूढमते च सुसंयतोऽपि पञ्चसमितस्त्रिगुप्तः सामाचारी, न तु तद्वि| लक्षणः, प्रमत्तसंयतादिष्वप्यतिप्रसक्तेः । एवंभूतमते च प्रागुक्तसकल विशेषणविशिष्टो सावद्ययोगविरतः सामाचारी, तत्र 'सावज्जो कम्मबंधोत्ति चूर्णिकारवचनात् सावद्यः - कर्मबन्धस्तेन सह योगो - वीर्यं ततो विरतः | परिज्ञाततत्क इत्यर्थः, नत्वनीदृक्, तथाभावं प्राप्तानामप्रमत्तादीनामपि तत्फलासिद्धेः अस्य च कुर्वद्रूपस्यैव कारणस्याभ्युपगमात् । नैगमस्य मते पुनः शुद्धाशुद्धरूपत्वात्सकलविशिष्टो द्विकत्रिकादिसंयोगविशिष्टो वाऽऽत्मा । तथेति ज्ञेयं । निश्चयव्यवहारविचारणायां तु सामाचारीसमाचरणरूपलिङ्गेनानुमेयो विचित्रचारित्रावरणकर्मक्ष
Jain Education Interbatio
For Private & Personal Use Only
ww.jainelibrary.org