SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे | नीयत्वेवकुशकुशीलैरेव तीर्थप्रवृत्तेः कस्याप्यवर्जनीयत्वानापत्तेः, तदुक्तं धर्मरत्नप्रकरणे-"बकुलकुसीलेहिं तित्थं, भावयतिअधिकारः दोसलवा तेसु निअमसंभविणो । जइ तेहिं वजणिजो अवजणिजो तओ णत्थि ॥१॥"अत एव गाढप्रमा- लिङ्गानि दवतोऽपि पन्थकेन शैलकस्य परिचर्या न त्यक्ता, तदुक्तं तत्रैव-मूलगुणसंपउत्तो, न दोसलवजोगओ इमो होइ । महुरोवक्कमओ पुण, पवत्तिअव्बो जहुत्तंमि ॥१॥ पत्तो सुसीससद्दो, एव कुणंतेण पंथगेणावि । गाढप्पमाइणोवि हु, सेलगसूरिस्स सीसेणं ॥२॥” मूलगुणवत्त्वं च तस्याक्षतमेव, सूत्रे शय्यातरपिण्डभोजित्वादिनैव पार्श्वस्थत्वादिव्यपदेशाच्छिथिलत्वपरित्यागे चाभ्युद्यतविहारस्यैवोपवर्णनात्, छेदमूलादिप्रायश्चित्तानुपदेशात्, अभ्युद्यतविहारिभिरकोनपश्चशतश्रमणैः पन्थकस्य तद्वैयावृत्त्यकरत्वेन स्थापितत्वाच, कथमन्यथाऽसाधुवैयावृत्ये साधुभिर्नियुज्यतेत्यादिसूक्ष्मवुद्ध्या चिन्तनीयम् । इत्थमपि च गुरुकुलवासो न नाममात्रगुरुसेवनया सत्यापितो भवति, निक्षेपचतुष्टये भावनिक्षेपस्यैव स्वातन्त्र्येण सूत्रे ग्रहणात्, अन्यथा खाभिप्रायाभिमतगुरुनामकारिणां सर्वेषामपि गुरुकुलवासप्रसक्तेः, न चैतदिष्टं, धर्माधर्मसङ्करप्रसङ्गात्, अत्र चेदं सूत्रं महानिशीथे| "से भयवं! तित्थयरसंति आणं नाइक्कमिज्जा उदाहु आयरियसंतिअं? गोयमा?, चउब्विहा आयरिया पन्नत्ता, तंजहा-नामायरिया ठवणायरिया व्वायरिया भावायरिया, तत्थ णं जे ते भावायरिया ते तित्थयरसमा चेव ॥ दहव्वा, तेसिं संति आणं नाइकमिज्जा, सेसा निब्रूहिअव्वा" ॥ तथा गच्छाचारप्रकीर्णकेऽपि-"तित्थयरसमो सूरी सम्मं जो जिणमयं पयासेइ । आणं च अइकंतो सो कापुरिसोण सप्पुरिसो॥१॥" अयं भावः-शु Jain Education in For Private Personel Use Only N w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy