________________
Jain Education Intern
गृहिणामेव हि कदा विषममिदं कार्यं सेत्स्यति ? को वाऽयं समयः १ कथं वा राजादिभ्यो गोपयामि ? इत्यादिचिन्ताभारग्रस्तानां दुःखं, न तु विषयविरक्तानां मुनीनाम्, अनुभवसिद्धमुखस्यैव तैः संवेदनात्, मनः परितोषे | बाह्यसम्पत्तेरकिश्चित्करत्वाद्, आह च - "वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः सम इह परितोषे निर्विशेषो विशेषः । स हि भवति दरिद्रो यस्य तृष्णा विशाला, मनसि च परितुष्टे कोऽर्थवान् ? को दरिद्रः १ ॥१॥" न च काङ्क्षितार्थसम्पत्त्यभावादुःखं, इच्छाविनिवृत्तेरि (रे) व प्रकर्षप्राप्तफलत्वात्, यदनिच्छाः केवलिनो भणिताः, न चैवं प्रव्रज्याग्रहणकालेऽपि मुक्तिविषयेच्छा न स्यादिति वाच्यं तस्याः प्रशस्तत्वेनाप्रतिकुष्टत्वात् सैव हि सामायिकसंयतानुष्ठानरूपेणाभ्यस्यमाना हेतुर्जायतेऽनिच्छभावस्य, प्राथमिकं हि वैराग्यं विषयवैतृष्ण्यरूपं मुक्तीच्छां न विरुणद्धि, द्वितीयं त्वनिच्छभाव एव, अध्यात्मशुद्धिपरिपाकादिति, तदाहुर्योगाचार्या :- "तत्परं पुरुषख्यातेगुणवैतृष्ण्यमिति ( पा० १-२० ) प्रणीतं च भगवता गौतमपृष्टेन मासादिवर्षान्तपर्यायक्रमे व्यन्तरादीनां तेजोलेश्यायतिक्रमः ततश्च शुक्लशुक्लाभिजात्यभावभजनेन सर्वोत्तमस्थानलाभः तेजोलेश्या सुखासिका शुक्लः कर्मणा शुक्लाभिजात्य आशयेनेति । ततश्च प्रवर्द्धमानशुक्ललेश्यत्वान्निरभिष्वङ्गत्वात्साधूनामेव पारमार्थिकं सुखमिति, गृहादित्यागस्तेषां पुण्यविपाकमेवानुमापयति नतु पापमिति स्थितम् । आलापकश्चायम्- 'जे | इमे अत्ताए समणा निग्गंथा विहरंति ते णं कस्स तेउलेसं वीइवयंति ?, मासपरिआए समणे निग्गंथे वाण|मंतराणं देवाणं तेउलेस्सं वीइवयंति, एवं दुमासपरिआप असुरिंदवज्जिआणं भवणवासिदेवाणं, तिमास परि
For Private & Personal Use Only
jainelibrary.org