________________
धर्मसंग्रहे || पशमादिः, ततश्च निश्चयनयसम्मतो विरतिपरिणाम इति द्वयोरपि तुल्यत्वं । न च निश्चयव्यवहारकार्ययोमु-यतिस्वरूपं अधिकारः क्तिलक्षणं कार्य प्रति साक्षात्परम्पराकारणतयाऽभ्यर्हितत्वानभ्यर्हितत्वाभ्यां विशेषः, निश्चयकार्यस्य व्यापा
रतया व्यवहारकार्यस्य साक्षाद्धेतुताया अविरोधाभ्यर्हितत्वाक्षितेः, वदन्ति हि तात्रिका:-'नहि व्यापारेण व्यापारिणोऽन्यथासिद्धिरिति। न चासति विरतिपरिणामे चैत्यवन्दनादिविधिसम्पादने मृषावादोऽपि गुरोः, भगवदाज्ञासम्पादनेन त्वं प्रव्रजितोऽसीत्यादिव्यवहारसत्यवचनस्याक्षतत्वात्, एतदकरणे तीर्थोच्छेदादयो दोषाः, परिणामस्य सिद्ध्यसिद्धिभ्यां व्याघातात्, आहत्यभरतादिभावकथनं चाशास्त्रार्थ, अन्ये त्वगारवासं पापात्परित्यजन्तीति वदन्ति, यतः 'शीतोदकादिभोगमदत्तदाना इति न कुर्वते, बहुदुःखप्राप्तोऽप्यर्थोऽभव्यानामिव पुण्यप्राप्तोऽपि गृहवास: पापानां नश्यतीति त्यक्तगृहवासाः, अवकाशविवर्जिताः, क्षुत्तृट्परिवर्जिताः, कथं न पापाक्रान्तास्ते?, कथं च तादृशानां सर्वविहीनानां शुभध्यानं?, तद्विना च कथं धर्म इति? तस्मागृहाश्रमरत एव सन्तुष्टमनाः परहितकरणैकरतिद्धर्म साधयति मध्यस्थः' इति, ते प्रष्टव्याः, किं 'पापस्य स्खलक्षणं' ? सक्लिष्टवेदनमिति चेदर्थोपार्जनादौ गृहिणामेव तत्प्राप्त, वदन्ति च-'अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःख व्यये दुःखं, धिगर्थोऽनर्थभाजनम् ॥१॥' इति । मुनीनां तु गृहादिहीनानामपि सर्वथा निरभिष्वङ्गाणामातध्यानविकल्पाभावात्कुत्र दुःखं ?, कुत्र च संक्लिष्टवेदनं नाम?, न च दुःखहेतोः क्रियाकष्टस्य सद्भावाद्दुःखोत्पत्ति| धौव्यं, गुरुतरप्रापकत्वेन शुभाध्यवसायेनारतिलेशस्याप्ययोगात्, तस्य दुःखहेतूनां सुखहेतुतया परिणमनात्,
Jan Education Intematonal
For Private Personal Use Only
www.jainelibrary.org