SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter किमनेन चैत्यवन्दनादिक्रियाकलापेन ?, श्रूयते तमन्तरेणापि भरतादीनां विरतिपरिणामः, अन्यथा केवलानुत्पत्तिप्रसङ्गात्, न च सम्पादितेऽपि तस्मिन् तत्परिणामो भवति, अभव्यानामप्यनेन विधिना प्रव्रज्याग्रहणश्रवणात्, इत्यन्वयव्यतिरेकव्यभिचाराभ्यां न युक्तं चैत्यवन्दनादि इति चेन्मैवं, प्रायो विरतिपरिणामहेतुत्वेन तदुपादानात्, न ह्येतावद्विधिसम्पत्तिमानकार्य प्रायः सेवमानो दृश्यते तेन कार्येण कारणमनुमीयते इति । न चोक्तव्यभिचारो दोषाय, तस्य कादाचित्कत्वात्, तथा च कदाचिद्दण्डं विनापि हस्तादिनैव चक्रभ्रमणाद् घटोत्पादेऽपि घटं प्रति दण्डस्येव व्यवहारं विनापि पूर्वाभ्यस्तकरणानां तथा भव्यत्वपरिपाकवतां भरतादीनां कदाचिद्विरतिपरिणामोत्पादेऽपि तं प्रति व्यवहारस्य न हेतुताक्षतिः, द्वारस्यान्यत एव सिद्धेः खप्रयोज्यद्वारसंवन्धेनैव च हेतुत्वाद्, अभव्यानां च बाह्यव्यवहारसत्त्वेऽपि विरतिपरिणामानुत्पादो न दोषाय, अन्तरकरणासत्वात्, सामग्र्या एव कार्यजनकत्वाद्, अविवेकमूलव्यभिचारदर्शनस्य विवेकिनामविश्वासाजनकत्वात्, तादृशाविश्वासस्य महानर्थनिमित्तत्वादिति भावः, यत उक्तमावश्यके - " पत्ते अबुद्धकर (ह)णे चरणं णासंति जिणवरिंदाणं । आहच्चभावकहणे पंचहिं ठाणेहिं पासत्था ॥१॥” 'पञ्चहिं'ति प्राणातिपातादिभिरिति । तस्माद् व्यवहारनया| देशाचैत्यवंदनादि (विधि) रूपवर्ण्यमानो युक्त एव, व्यवहारनिश्चययोर्द्वयोरेव तुल्यताया एव सूत्रे भणनात्, तदुक्त| म् - "जह जिणमयं पवज्जह ता मा ववहारणिच्छए (णयमयं) मुअह । ववहारणउच्छेए तित्थुच्छेओ जओऽवस्सं ॥ १॥” व्यवहारप्रवृत्त्या हि चैत्यवन्दनादिविधिना प्रब्रजितोऽहमित्यादिलक्षणया शुभपरिणामो भवति, ततः कर्मक्षयो For Private & Personal Use Only ainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy