SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः " काषि. ..... ... मातादनमाचाम्ल कुर्वन्तीति । एवं षण्मासान तपश्चरित्वा पारिहामा ॥१८५॥ भिक्षाग्रहणं च प्राग्वत्, इदं चतुर्णा पारिहारिकाणां तपः, ये तु कल्पस्थितादयः पञ्च ते प्रागुक्तभिक्षाभिग्रह-ISपरिहारि युक्ताः सन्तः प्रतिदिनमाचाम्लं कुर्वन्तीति । एवं षण्मासान् तपश्चरित्वा पारिहारिका अनुचरा भवन्ति, अनु-11 चिरकाश्च पारिहारिका भवन्ति, यावदपरे षण्मासाः, ततो मासद्वादशकानन्तरं वाचनाचार्योऽपि षण्मासान् पारिहारिकतपः करोति, शेषाणां चाष्टानां मध्ये सप्त वैयावृत्त्यकरा भवन्ति, एकस्तु वाचनाचार्य इति । एवमटादशमासप्रमाणोऽयं कल्पो भवति । ततः कल्पसमाप्तौ तमेव कल्पं जिनकल्पं वा प्रयान्ति गच्छं वाऽनुस-18 रन्ति । परिहारविशुद्धिका हि द्विविधाः-इत्वरा यावत्कथिकाच, तत्र ये कल्पसमात्यनन्तरं कल्पं गच्छं वा यान्ति ते इत्वरा, जिनकल्पप्रतिपत्तारस्तु यावत्कथिकाः इह चेत्वराः कल्पमाहात्म्यादनुपसर्गा अनातङ्काश्च भवन्ति, यावत्कथिकास्तु जिनकल्पिकवत् ज्ञेयाः, परिहारविशुद्धिप्रतिपत्तिश्च तीर्थकृतस्तत्पार्श्वगृहीततत्सपसश्च समीपे भवति, नान्यस्य पार्थे, एतत्प्ररूपणार्थ विंशतिद्वाराणि दयन्ते । तत्र क्षेत्रद्वारे जन्मतः सद्भावतश्च पञ्चसु भरतेष्वैरवतेषु च, संहरणं तु नास्ति १, कालद्वारेश्वसर्पिण्यां तृतीये तुर्ये वाऽरके जन्म, सद्भावश्च पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावस्तृतीये चतुर्थे वा, तुर्यारकप्रतिभागकाले न संभवत्येव, महाविदेहे तेषामसंभवात् २, चारित्रद्वारे चास्य चारित्रं परिहारविशुद्धिकमेव, तत्संयमस्थानानि | Intern आद्यचारित्रद्वयासंख्यातसंयमस्थानेभ्य ऊर्ध्वमसंख्यातसंयमस्थानान्यतिक्रम्यासंख्यानि भवन्ति ३, तीर्थद्वारे एतत्तपा नियमतस्तीर्थे वर्तमान एव, न तु तस्य विच्छेदे [न] अनुत्पत्त्यां वा तदभावे जातिस्मरणादिना ४, पर्या Jan Education Inter For Private Personal use only w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy