SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ मिष्वपि भवति १, कालद्वारे अवसर्पिण्यांजन्मना तृतीयचतुर्थारकयोरेव, व्रतस्थस्तु पञ्चमारकेऽपि, उत्सर्पिण्यां तु | व्रतस्थस्तृतीयचतुर्थारकयोरेव, जन्मना तु द्वितीयारकेऽपि, प्रतिभागकाले तु दुष्षमसुषमारूपे जन्मतः सद्भावतश्च प्राप्यते, विदेहेऽप्येषां सद्भावात्, संहरणेन पुनः सर्वस्मिन्नपि काले २॥ चारित्रद्वारे प्रतिपद्यमानक आद्यद्वितीययोरेव चारित्रयोः, विदेहमध्यतीर्थकृतां सामायिके, आद्यन्तिमजिनयोस्तु छेदोपस्थानीये, पूर्वप्रतिपन्नस्तु सूक्ष्मसंपराययथाख्यातयोरपि, स चोपशमश्रेण्यामेव न तु क्षपकश्रेण्यां 'तजम्मे केवलपडिसेहभावाओ' इति वचनात् ३, कल्पद्वारे स्थितकल्पे भवति ४, लिङ्गद्वारे प्रतिपद्यमानको द्विविधेऽपि द्रव्यभावरूपे लिङ्गे भवति, पूर्वप्रतिपन्नस्तु भावलिङ्गेऽवश्यमेव, द्रव्यलिङ्गे तु भाज्यो, हृतजीणेतादिभिः कदाचिद्व्यलिङ्गस्याभावात्, गणनाद्वारे प्रतिपद्यमानका जघन्यत एकादय उत्कर्षतः शतपृथक्त्वं पूर्वप्रतिपन्नास्तु द्विधापि सहस्रपृथक्त्वमेवेत्यादि जिनकल्पिखरूपं । अथ पारिहारिकवरूपं प्रोच्यते-पारिहारिका निर्विशमानका निर्विष्टकायिकाश्चेति | द्विविधाः, तत्राद्या विवक्षिततपोविशेषसेवकाः, निर्विष्टकायिका आसेवितविवक्षिततपोविशषांः, इह च नवको गणश्चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिण एकः कल्पस्थितो वाचनाचार्यः, यद्यपि सर्वेऽपि श्रुता-16 तिशयसंपन्नास्तथापि कल्पत्वात्तेषामेकः कश्चित्कल्पस्थितोऽवस्थाप्यते । तेषां च पारिहारिकाणां निर्विशमान-18 कानां तपस्त्रिधा-जघन्यं मध्यममुत्कृष्टं चेति, तच त्रिविधमपि ग्रीष्मकाले यथाक्रमं चतुर्थ षष्ठमष्टमं च भवति, शिशिरे च षष्ठमष्टमं दशमं च, वर्षाकाले चाष्टमं दशमं द्वादशं चेति, पारणके च त्रिष्वपि कालेष्वाचाम्लं, For Private 8 Personal Use Only W w JainEducation int: .jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy