SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥ १८४॥ Jain Education In कालज्ञानं भवति, उत्कर्षतस्तु भिन्नदशपूवाणि १, संहननं चाद्यमेव भवति, धृत्या च वज्रकुडासमानं २, उपसर्गाश्च दिव्यादयोऽस्य भवन्ति न वा, यदि पुनर्भवन्ति तदाऽव्यथितो विसहते तान् ३, एवमातङ्कमपि आगतमसौ निष्प्रतिकर्मशरीरः सहते न तु चिकित्सां कारयति ४, वेदना च द्विविधापि तस्य भवति ५, वसत्यादौ चैक एवासौ निरपेक्षतया भावतो भवति, द्रव्यतस्त्वनेकोऽपि भवति, एकवसतावुत्कर्षतः सप्तानां संभवात् ६, उच्चारप्रश्रवणजीर्णवस्त्राणां च व्युत्सर्जनम सावनापाता संलोकादिदशगुणोपेत एव स्थण्डिले करोति ७, मासकल्पं चतुर्मासकं वा यत्र क्षेत्रेऽवस्थितस्तत्र षड् भागान् कल्पयित्वा एकस्मिन् दिने यत्र भागे भिक्षार्थं हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, भिक्षाचर्यां ग्रामान्तरे गमनं च तृतीयपौरुष्यामेव करोति, चतुर्थपौरुषी तु यत्रावगाहृते तत्र नियमादवतिष्ठते, भक्तपानकं च प्रागुक्तैषणाद्वयाभिग्रहेणालेपकृदेव गृह्णाति, सिंहव्याघ्रादिके च सम्मुखे समापतत्युन्मार्गगमनादिना नेर्यासमितिं भनक्तीत्यादिका जिनकल्पसामाचारी कल्पग्रन्थतोऽवसेया । अत्र च तत्स्थितिप्रतिपादनार्थं कानिचिद् द्वाराणि प्रदर्श्यन्ते, तद्यथा क्षेत्र १ काल २ चारित्र ३ तीर्थ ४ पर्याया ४ गम ६ वेद ७ कल्प ८ लिंग ९ लेश्या १० ध्यान ११ गणना १२ भिग्रह १३ प्रवाजन१४ मुण्डन १५ निष्प्रतिकर्मता १६ भिक्षा १७ पथ १८ रूपाणि द्वाराणि । तत्र तीर्थ १ पर्याया २ऽऽगम ३ वेद ४ ध्याना ५ भिग्रह ६ प्रव्रज्या ७ मुण्डन ८ निष्प्रतिकर्मता ९ भिक्षा १० पथ ११ द्वाराणि परिहारविशुद्धिकद्वारे यथा वक्ष्यन्ते तथैवात्रापि ज्ञेयानि । क्षेत्रद्वारे जन्मना सद्भावेन च पञ्चदशस्खपि कर्मभूमिषु संहरणेन [न] त्वकर्मभू For Private & Personal Use Only जिनकल्पाधि. ॥ १८४॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy