________________
यद्वारे गृहस्थपर्यायो जघन्यत एकोनत्रिंशद्वर्षाणि, यतिपर्यायो विंशतिः, द्वावपि चोत्कर्षतो देशोनपूर्वकोटिप्रमाणौ ५, आगमद्वारेऽपूर्वमसौ नाधीते, गृहीतोचितयोगाराधनत एव कृतार्थत्वात्, प्रागधीतं तु विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः स्मरति ६, वेदद्वारे प्रवृत्तिकाले पुनपुंसको वेदी स्तः, स्त्रियास्तत्प्रतिपत्त्यसंभवात् , प्राक् प्रतिपन्नः सवेदोऽवेदो वा भवेत् ७, कल्पद्वारे स्थितकल्प एवायं नास्थितकल्पे ८, लिङ्गद्वारे निय|मात् द्रव्यभावरूपलिङ्गद्वये [न] भवति, न त्वन्यतरस्मिन् ९, लेश्याद्वारे शुद्धासु तिसृष्वेनं कल्पं प्रतिपद्यते, प्रतिपन्नस्तु षट्खपि भवति १०, ध्यानद्वारे धर्मध्यानेन प्रवर्द्धमानेनैतत्पतिपद्यते, पूर्वप्रतिपन्नस्तु आर्त्तरौद्रर रपि भवति, परं प्रायेण निरनुबन्धः ११, गणनाद्वारे जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतः शतसंख्या:, पूर्वप्रतिपन्नास्तु द्विघापि शतशः, पुरुषगणनया जघन्यतः सप्तविंशतिरुत्कर्षतः सहस्रं, पूर्वप्रतिपन्नकाः पुनर्जघन्यतः शतशः, उत्कर्षतः सहस्रशः, यदा च कल्पमध्यादेको निर्गच्छति अन्यश्च प्रविशति तदा एकः पृथक्त्वं वा, पूर्वप्रतिपन्नोऽप्येवं भजनया प्राप्यते १२, अभिग्रहद्वारे द्रव्याद्यभिग्रहा अस्य न भवन्ति, एतत्कल्पस्यैवाभिग्रहरूपत्वात् १३, प्रव्रज्याद्वारे मुण्डनद्वारे च नासावन्यं प्रव्राजयति १४ मुण्डयति च १५, प्रायश्चित्तद्वारे मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियमतश्चतुर्गुरुकं, अस्यैकाग्रताप्राधान्यात्, तद्भङ्गे च गुरुतरदोषादिति १६,18 कारणद्वारे कारणं नामालम्बनं, तच्च सुपरिशुद्धं ज्ञानादिकं, तदस्य न विद्यते, निरपवादत्वादनालम्बन एवायं १७, निष्पतिकर्मताद्वारेऽक्षिमलाद्यपि नापनयत्यसौ महात्मा १८, भिक्षाद्वारे पथद्वारेच भिक्षाविहारक्रमश्चास्य तृती
Jain Education Intel
For Private & Personel Use Only
Yiww.jainelibrary.org