SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रव्रजनोपाया:प्रव्रज्याविधिश्च धर्मसंग्रह शुद्धिश्च प्रशस्तदिगादिरूपा, यथा-"पुव्वाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छेजा। जाए जिणादओ वा अधिकारः |दिसाइ जिणचेइआई वा ॥१॥” इति, दद्यात् गुरुः अथवा प्रतीच्छेत् शिष्यः, यस्यां जिनादयो वा दिशि, | जिना-मनःपर्यायज्ञान्यादिका जिनचैत्यानि वा यस्यां दिशीत्यस्या अर्थलेशः। क्षेत्रादिशुद्ध्या च सामायिका द्यारोपणे प्रागसन्नपि जायते तत्परिणामः, संश्च स्थिरीभवति, अन्यथा तु आज्ञाभङ्गादयो दोषा एव, यतः ॥११॥ पञ्चवस्तुप्रकरणे-"एसा जिणाणमाणा खेत्ताईआ य कंमुणो हुंति । उदयाइकारणं जं तम्हा एएसु जइअव्वं ॥१॥” इति । ततः प्रविव्रजिषुर्जिनानां पूजां साधूनामपि वस्त्रादिना करोति, ततो गुरुरनुष्ठानविधिं करोति, यतस्तत्रैवोक्तम्-"तत्तो अ जहाविहवं पूअं स करेज वीअरागाणं । साहूण य उवउत्तो एरं च विहिं गुरू कुणइ ॥१॥” इति । स च विधिः सामाचारीपाठेन प्रदर्यते, तथाहि-प्रशस्तदिवसे कृतविशिष्टनेपथ्यः समृझ्या गृहादागत्य जिनभवनप्रवेशसमयेऽक्षतभृताञ्जलिः प्रदक्षिणात्रिकं जिनभवनस्य समवसरणस्य च ददाति, ततो गुरुः शिरोमुखहन्नाभिअधोगात्राणि आरोहावरोहारोहक्रमेण 'क्षिप ओखाहा हावाओं पक्षिक्षिपओं खाहा' इत्येतैरक्षरैदक्षिणकरानामिकया स्पृशन् प्रथमं खस्यात्मरक्षां कृत्वा ततः शिष्यस्यापि करोति, तत आचार्योपा ध्यायौ वमन्त्रेण तदन्यस्तु वर्द्धमानविद्यया कृतोत्तरासङ्गमुखकोशजानुस्थभव्यश्राद्धकरयुगविधृतगन्धभाजनस्था18न् गन्धानभिमन्यते, तथाऽनामिकाङ्गुल्या प्रथम मध्ये न्यसन दक्षिणावर्त तदुपरि स्वस्तिकं तन्मध्ये प्रणवं तत ऐन्द्या वारुण्यन्तम् कौबेर्या याम्यन्तं ऐशान्या नैर्ऋत्यन्तं आग्नेय्या वायव्यन्तं च यावद्रेखाचतुष्टयेनाष्टारं ॥११॥ Jan Educh an international For Private & Personal use only Homww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy