________________
धर्मसंग्रहे अधिकारः ३
॥ १७९ ॥
५ भेदैः पञ्चप्रकारा, उक्तं च- "उम्मग्गदेसओ ९ मग्गनासओ २ मग्गविपडिवत्ती ३ (य) । मोहेण ४ मोहइन्ता ५ संमोहं भावणं कुणइ ॥ १ ॥” इति । तत्र ज्ञानाद्याचारलक्षणं स्वप्रतिपन्नमार्गमदूषयत एव तद्विपरीतदेशनमुन्मार्गदेशना १, भावमार्गस्य तत्प्रतिपन्नसाध्वादीनां च दूषणं मार्गदूषणं २, असद्दृषणैर्भावमार्गं दूषयित्वा | जमालिवद्देशत उन्मार्गप्रतिपत्तिर्मार्गविप्रतिपत्तिः ३, सूक्ष्मभावेषु परतीर्थिकसमृद्ध्यालोकने च मोहनं मोह : ४, स्वभावेन कपटेन वा कुमार्गेषु परस्य मोहनं मोहजनन ५ मिति सांमोही । एताश्च पञ्चविंशतिरप्यशुभफलाः, यतः - "एआओ भावणाओ, भावित्ता देवदुग्गइं जंति । तत्तोवि चुआ संतो, पडंति भवसागरमणतं ॥ १ ॥” इति । यद्यप्येताञ्चारित्रिणां सर्वदैव वर्ज्यास्तथाप्यनशने चारित्रस्यातिविशुद्ध्यापादनाय विशेषतो वर्ज्या इत्यत्रैवोपन्यस्ताः, तदुक्तम् - "एआओ अविसेसेणं, परिहरई चरणविग्घभूआओ । एअणिरोहाउ चिअ, सम्म चरणंपि पावेति ॥ १ ॥” 'पाविती' त्यत्र प्रस्तुतोऽनशनीतिशेषः १, ननु नैताश्चारित्रविरुद्धा 'जो संजओवि एआसु' इत्यादिना ग्रन्थेन तथा भणनादिति चेदुच्यते, व्यवहारनयाञ्चरणमेतासु भवति, यदसंक्लिष्टोऽपि कश्चित् कन्दर्पादीन सेवते, नतु निश्चयनयमतेन चरणमेतासु, यतोऽस्य नियमत एवं निरतिचारं गुणस्थानमिष्टं सदौचित्यप्रवृत्त्या, यतः सूत्रेऽप्युक्तम्- "जो जहवायं न कुणइ, मिच्छद्दिट्ठी तओ हु को अन्नो ।। वद्धेइ अमि च्छन्तं परस्स संकं जणेमाणो ॥ १ ॥” इति । न च कन्दर्पादिकरणस्य यथावादत्वमेवेति वाच्यं, चारित्रे कन्दर्पादि| वादस्य कापि सूत्रेऽश्रवणात्, तस्मात् कन्दर्पादिसेवनमपि चारित्रवादविराधकमेवेति । एवं निश्चयनयेनैतदुक्तं,
Jain Education International
For Private & Personal Use Only
आसुर्या -
दिभाव
नाः
॥ १७९ ॥
I www.jainelibrary.org