________________
मासान् परिपालनं, शेषप्राग्वत्, इदं च शुद्धाशुद्धाशनादिभिः परिपालना गुर्वादीनां रोगाद्यभिभूतवपुषां क्षेत्रकालादिपरिहाणिवशतो भक्त्याद्यलाभवतां च विधेया, न पुनरेवमेव सुस्थावस्थायामिति । व्यवहारभाष्ये तु सर्वसामान्यग्लानप्रतिक्रियाव्यवस्थार्थमियं गाथा लिखिता-"छम्मासा आयरिओ, कुलं च संवच्छराई तिणि भवे । संवच्छरं गणो खलु, जावजीवं भवे संघो ॥१॥" व्याख्या-प्रथमत आचार्यः षण्मासान् ग्ला-19 नस्य चिकित्सां कारयति, तथाप्यप्रगुणीमूतं कुलस्य समर्पयति, ततः कुलं त्रीन् संवत्सरान्, ततः संवत्सरं गणः, तथाप्यनिवर्तिते रोगे सङ्घस्य समर्पयति, ततः संघो यावज्जीवं शुद्धेन तदभावेऽशुद्धेनापि चिकित्सको भवति, एतचोक्तं भक्तविवेकं कर्तुमशकवतो, यः पुनः कर्तुं शक्तस्तेन प्रथमतोऽष्टादश मासान् चिकित्सा कार यितव्या, विरतिसहितजीवितस्य पुनः संसारे दुष्पापत्वात्, तदनन्तरं प्रगुणीभवति तदा भव्यं, न चेत्तर्हि भक्तविवेकः कर्त्तव्य इति ॥ १५१॥ साम्प्रतं तत्र विशेषतो वर्जनीयाः संक्लिष्टा भावना आह
कान्दी कैल्बिषिकी चाभियोगिक्यासुरी तथा । सांमोही चेति पञ्चानां, भावनानां विवर्जनम्॥८॥ __ कन्दर्पः-कामस्तत्प्रधाना निरन्तरनर्मादिनिरततया विटमाया देवविशेषास्तेषामियं कान्दप्पी, एवं किल्बिषाःपापा अत एवास्पृश्यादिधर्मका देवाः किल्बिषास्तेषामियं कैल्बिषिकी, आ-समंतात् युज्यन्ते-प्रेष्यकर्मणि | व्यापार्यन्ते इत्याभियोगा:-किंकरस्थानीया देवविशेषास्तेषामियं आभियोगिकी, असुरा-भवनवासिदेववि|शेषास्तेषामियं आसुरी, तथा संमुह्यन्तीति संमोहा-मूढात्मानो देवविशेषास्तेषामियं सामोही, इति 'पञ्चाना'
Jain Education Internal
For Private & Personel Use Only
IAMw.jainelibrary.org