________________
स्तिष्ठन्ति परिमाणनियमश्च कृतो यथैतावद्भिः स्थातव्यं नाधिकैरिति ततोऽन्यप्राघूर्णकाभ्यागमे तेषामव-18 स्थानाय भूयोऽप्यनुज्ञाप्यः सागारिकः यद्यनुजानाति तदा सुंदरं, नो चेदन्यवसतौ स्थाप्यः २०, तथा भिक्षाचर्या कदाचिनियता कदाचिदनियता २१-२२, अन्नं पानं च लेपकृतमलेपकृतं वा आचाम्लमनाचाम्लं वा द्वयमपि कुर्वन्ति २३-२४-२५-२६, प्रतिमाश्च मासिक्याद्या भद्राद्या वा सर्वा प्यमीषामविरुद्धा २७ इति सामाचारीप्ररूपणाऽवसेया । तथैषां स्थितिरपि तत्रैकोनविंशत्या द्वारैर्विचारिता, तद्यथा-क्षेत्र १ काल २. चारित्र ३ तीर्थ ४ पर्याय ५ आगम ६ कल्प ७ वेद ८ लिङ्ग ९ लेश्या १० ध्यान ११ गणनास्तु १२, अभिग्रहाचामीषां वक्तव्याः १३, प्रजाजनायां १४ मुंडापनायां च १५ अमीषां स्थितिर्वक्तव्या कीदृशी स्थितिः, मनसाऽऽपन्नेऽपराधेऽनुराताश्चतुर्गुरवः १६, कारणं १७, निष्पतिकर्मता १८, भक्तं पन्थाश्च तृतीयपौरुष्यां भजनयेति १९, तत्र क्षेत्रद्वारे स्थविरकल्पिका जन्मतः सद्भावतश्च पञ्चदशखपि कर्मभूमिषु संहरणतस्तु अकमिभूमिष्वपि भवन्ति १, कालद्वारेऽवसर्पिण्यां द्विधापि तृतीयाद्यरकत्रिकेषु स्युः, उत्सर्पिण्यां च जन्मतो द्वितीयादिषु त्रिकेष्वरकेषु सद्भावतस्तु तृयीयचतुर्थयोरेव, नोत्सर्पिण्युत्सर्पिणीकाले च द्विधापि दुष्षम-18 सुषमप्रतिभागे काले स्युः, संहरणतस्तु सुषमादिप्रतिभागेष्वपि २, चारित्रद्वारे प्रतिपद्यमानका आद्ययोरेव, पूर्वप्रतिपन्नास्तु सर्वेष्वपि चारित्रेषु स्युः ३, तीर्थद्वारे अमी नियमातीर्थे एव भवन्ति, न तु तीर्थेऽ व्यवच्छिन्ने वा ४, पर्यायद्वारेऽमीषां गृहिपर्यायोजघन्यतोऽष्टौ वर्षाणि उत्कर्षतश्च पूर्वकोटी, प्रव्रज्यापर्य
.
पापयायच
Jain Education Intel
For Private & Personel Use Only
Www.jainelibrary.org