________________
धर्म संग्रहे अधिकारः
३
॥ १७५ ॥
Jain Education Int
मिकी चेति द्विविधा, तत्राद्या लोचाद्या द्वितीया च जराविपाकाद्या (ज्वराद्या) ५, तथा वसतिस्तेषामममत्वा एकां च प्रमार्जनां मुक्त्वोपलेपनादिकर्म्मवर्जिता, कारणे तु सममत्वा सपरिकर्मा चापि, शैक्षादीनामभिष्वङ्गविधानात् अपरिकर्माया वसतेरभावाच्च (८) तथा जघन्यतस्त्रय उत्कर्षतश्च द्वात्रिंशत्सहस्राण्येकस्मिन् गच्छे स्युः (६) स्थण्डिले च प्रथमे गच्छन्ति आगाढे तु शेषेष्वपि (७) कियच्चिरं अस्यां वसतौ वत्स्यथेति शय्यातरेण पृष्टे निर्व्याघाते मासं सव्याघाते तु हीनमधिकं वेति ब्रुवते ९, तथोच्चारादीन् यत्र कर्त्तुमनुजानाति तत्रैव कुर्वन्ति, ग्लानादिकारणे तु मात्रकेषु व्युत्सृज्य बहिः परिष्ठापयन्ति १०-११, एवमवकाशेऽवस्थानं पात्रधावनाद्यपि, कारणे तु कमठकादिषु धावन्ति १२, तृणफलकान्यप्यनुज्ञातानि परिभुञ्जते १३, संरक्षणता नाम यत्र तिष्ठतां सागारिणो भणन्ति - गवादिभिर्भज्यमानां वसतिमन्यद्वा समीपवर्त्ति गृहं संरक्षत, तत्राप्यशिवादिभिः कारणैस्तिष्ठन्तो भणन्ति 'यदि वयं तिष्ठामस्ततो रक्षामः' इति १४, संस्थापना नाम वसतेः संस्कारकरणं, तस्यामपि नियुक्ता भणन्ति - वयमकुशलाः संस्थापनाकर्मणि कर्त्तव्ये १५, सप्राभृतिकायामपि वसतौ कारणतः स्थिताः स्वकीयमुपकरणं प्रयत्नेन संरक्षन्ति, यावत् प्राभृतिका क्रियते तावदेकस्मिन् पार्श्वे तिष्ठन्ति, प्राभृतिका नाम बलिः १६, सदीपायां साग्निकायां च वसतौ कारणतः स्थिता आवश्यकं बहिः कुर्वन्ति १७-१८, अवधानं नाम यदि गृहस्थाः क्षेत्रादि गच्छन्तो भणन्ति - अस्माकमपि गृहेषूपयोगो दातव्यस्तत्रापि कारणतः स्थिताः स्वयमेवावधानं ददति, अनुपस्थापितशैक्षैर्वा दापयन्ति १९, यत्र च कति जना वत्स्यथेति पृष्टे सति कारणत
For Private & Personal Use Only
गच्छवासिसामाचारी
॥१७५॥
w.jainelibrary.org