________________
Jain Education Inter
विहितक्रियाविशेषस्तद्विशिष्टमनशनमिङ्गिनी २, भक्तस्य - भोजनस्य परिज्ञा- ज्ञपरिज्ञया परिज्ञानं प्रत्याख्यान - परिज्ञया च प्रत्याख्यानं भक्तपरिज्ञा ३ ॥ १४९ ॥ अथैषां खरूपाभिधित्सायां श्लोकद्वयमाह
आद्यसंह (न) निनामेव, तत्रादिममचेष्टने । इङ्गिनीमरणं चेष्टावतामाहार वर्जनात् ॥ १५० ॥ आहारस्य परित्यागात्, सर्वस्य त्रिविधस्य वा । भवेद्भक्तपरिज्ञाख्यं, द्विधा सपरिकर्मणाम् ॥ १५१ ॥ युग्मम् । 'तत्र' तस्मिन् त्रिविधे मरणे 'आद्यं' (आदिमं ) पादपोपगमनं आद्यसंहननिनामेव वज्रऋषभनाराचसंहननवतामेव सर्वधनादित्वादिन्, ( सर्वधनादेरिन् श्रीसि० ७-२-५९) 'अचेष्टने' चेष्टाभावे सति सर्वथा चेष्टानिरोधे | सतीत्यर्थः, 'आहारवर्जनात् ' सर्वाहारत्यागात् चतुर्विधाहारप्रत्याख्यानेनेत्यर्थः, भवतीतिक्रियान्वयः । अत्रायं भावःपूर्वोक्तप्रकारेणात्मानं द्रव्यतो भावतश्च संलिख्य पीठफलकादि प्रातिहारिकं च प्रत्यर्प्य क्षमयित्वा च यथार्ह गुर्वा दीन् शेषांश्च साधून गुरुनिष्ठितान् धर्मे उद्यमितव्यं, संयोगा वियोगान्ता इत्युपबृंह्य वन्दित्वा च देवान् गुर्वादींश्च गुरुसमीपे चतुर्विधाहारं प्रत्याख्याति, ततः समभावभावितात्मा निरीहः सन् गिरिकन्दरं गत्वा सस्थावररहिते स्थण्डिले दण्डायतादि स्थानं स्थित्वोन्मेषाद्यभावात् पादपवन्निश्चेष्टो यावज्जीवं तिष्ठतीति पादपोपगमनाख्यानशनखरूपं तदुपलक्षितं मरणमपि तदेवेत्यग्रेऽपि ज्ञेयम् । एतच्च द्विविधं निर्व्याघातं सव्याघातं चेति, तत्राद्यं प्रक्रान्तमेव, यत: - " णिवाघाइअमेअं, भणिअं इह पकमाणुसारेणं । संभवइ इअरंपि हु, भणिअमिअं
For Private & Personal Use Only
ww.jainelibrary.org