________________
तया निष्पत्तेः, अगीतः खलु अगीतार्थतायुक्तः पुनर्भवेदजातोऽजातकल्पः, अव्यक्तत्वेनाजातत्वात् , तथा द्वितीयगाथावर्तिनः 'उउवद्धे' इतिपदस्येह सम्बन्धात् ऋतुबद्धे-अवर्षासु पणगंति-पञ्चकं साधूनां, साधुपञ्चकपरिमाण | इत्यर्थः, समाप्तकल्पो नाम विहारो भवति, तदूनकस्तस्मात् पञ्चकान्यूनो द्वित्रिचतुर्णा साधूनामित्यर्थः, कल्पो | भवत्यसमाप्तोऽपरिपूर्णोऽसहायत्वात् , वर्षासु-वर्षाकाले पुनः सप्त साधवः साधुसप्तकपरिमाण इत्यर्थः, समाप्त-18 कल्पः, तदूनका-तेभ्यः सप्तभ्यो हीन इतर:-असमाप्तकल्पः, यच्च वर्षासु सप्तानां विहारवर्णनं तत् किल वर्षासु तेषां ग्लानत्वादिसंभवे सहायस्यान्यत आगमनासंभवादल्पसहायता मा भूदितिहेतोः, ततश्चासमाप्ताजातानांअसमाप्तकल्पाजातकल्पवतामोघेन-उत्सर्गेण न किञ्चित् क्षेत्रतद्गतशिष्यभक्तपानवस्त्रपात्रादिकमागमप्रसिद्ध-18 माभाव्यं भवति । यथा चाभाव्यं भवति तथाह-"हवइ समत्ते कप्पे, कयम्मि अन्नोन्नसंगयाणंपि । गीअजुआणाहवं, जहसंगारं दुवेण्हंपि ॥४॥” भवति समाप्ते कल्पे कृते सत्याभाव्यमन्योऽन्यसङ्गतानामपि विजातीयकुलाद्यपेक्षया गीतार्थयुक्तानामाभाव्यं 'यथासंगारं' यथासङ्केतं द्वयोरपि [गीतार्था] गीतार्थयोरपीति खलब्धिमतो विहारविधिः प्रदर्शितः। एवं साध्व्यपि शेषसाध्वीभ्यो गुणाधिका दीक्षाश्रुतादिना परिणता च खलब्धियोग्या भवति, यतः पञ्चवस्तुके-"वइणीवि गुणगणेणं, जा अहिआ होइ सेसवइगीणं । दिक्खासुआइणा परिणया य जोग्गा सलद्धीए॥१॥"त्ति, अत्र केचन वदन्ति-साध्वीनां खलब्धिर्न भवति, यतस्तासां प्रायो वस्त्रादि सर्व गुरुपरीक्षितमेव स्यात्, तथा लघुत्वदोषाश्चता(सा)नियमेन भवन्तीति, तन्न, शिष्यादौ भिक्षादौ उचिते विषये
(O
For Private & Personal Use Only
in Education in
ww.jainelibrary.org