SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ स्मात्त्यागः कार्यो गुर्वादेरिति, इदमुक्तं भवति-यथा कश्चित्कुलपुत्रकः कश्चिदपारं कान्तारं गतो मातापित्रादिसमेतस्तत्प्रतिबद्धश्च तत्र व्रजेत्, तस्य च गुर्वादेस्तत्र व्रजतो नियमघाती वैद्यौषधादिरहितपुरुषमात्रासाध्यस्तथाविधौषधादिप्रयोग्यश्च महानातङ्कः स्यात्, तत्र चासौ तत्प्रतिबन्धादेवमालोचयति-यथा न भवति नियमादेष गुरुजनो नीरुग् औषधादिमन्तरेण, औषधादिभावे च संशयः-कदाचित् स्यात् कदाचिन्नेति, कालसहचायं, ततः संस्थाप्य तथाविधचित्रवचनोपन्यासेन तं तदोषधादिनिमित्तं खवृत्तिहेतोश्च त्यजन् सन्नसौ साधुरेव भवति, एष हि त्यागोऽत्याग एव, यः पुनरत्यागः स परमार्थतस्त्याग एव, यतः फलमत्र प्रधान, वीराश्चैतद्दर्शिन एव भवंति, तत औषधसम्पादनेन तं जीवयेदपीतिसम्भवात्, सत्पुरुषोचितमेतत् । एवं शुक्लपाक्षिको महापुरुषः संसारकान्तारपतितो मातापित्रादिसङ्गतो धर्मप्रतिबद्धो विहरेत् , तेषां च तत्रा(त्र)नियमविनाशकोऽप्राप्तसम्यक्त्वबीजादिना पुरुषमात्रेण साधयितुमशक्यः सम्भवत्सम्यक्त्वाद्यौषधो दर्शनमोहाद्युदयलक्षणः कर्मातङ्कःस्यात् , तत्र च शुक्लपाक्षिकः पुरुषो धर्मप्रतिबन्धादेवंसमालोचयति, यदुत-विनश्यन्ति(न्त्ये) तान्यवश्यं सम्यक्त्वाद्यौषधविरहेण, तत्सम्पादने विभाषा, कालसहानि चेमानि व्यवहारतस्ततो यथावद्हवासनिर्वाहचिन्तया तथा संस्थाप्य तेषां सम्यक्त्वाद्यौषधनिमित्तं स्वचारित्रलाभनिमित्तं च खकीयौचित्यकरणेन त्यजन् सन्नभीष्टसंयमसिद्धौ साधुरेव एष त्यागः तत्त्वभावनातोऽत्याग एव त्यागो मिथ्याभावनातः तत्र, फलमत्र प्रधानं बुधानां, यतो धीरा एतद्दर्शिन आसन्नभव्याः, एवं च तानि सम्यक्त्वाद्यौषधसम्पादनेन जीवयेदात्यन्तिकं Jain Education in For Private & Personel Use Only IONaw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy