SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१५७॥ Jain Education Inte "अडवरिस दिक्ख बारस सुत्ते अत्थे य वायगत्ते अ । पणयालीसे एरिसगुणजुत्तो होइ आयरिओ ॥ १ ॥ ति । अथ तस्यां सत्यां यत्स्यात्तच्छ्लोकद्वयेनाह— ईदृपर्यायनिष्पन्नः, षट्त्रिंशद्गुणसंगतः । दृढव्रतो यतियुतो, मुक्त्यर्थी संघसम्मतः ॥ १३० ॥ श्रुतानुयोगाऽनुज्ञायाः, पात्रं न तु गुणोज्झितः । अपात्रे तत्प्रदाने यन्महत्याशातना स्मृता ॥१३१॥ युग्मं ॥ 'ईशा' पूर्वोक्तेन 'पर्यायेण' वर्षपर्यायेण 'निष्पन्नः' प्राप्तनिष्ठः तथा षट्त्रिंशता गुणैः 'सङ्गतः' सहितः, ते चामी- “पंचिंदिअसंवरणो, तह नवविहवंभचेरगुत्तिधरो । चउविहकसायमुको, अट्ठारगुणेहिं संजुत्तो ॥ १॥ पंच| महवयजुत्तो पंचविहायारपालणसमत्थो । पंचसमिओ तिगुत्तो छत्तीसगुणो गुरू होइ ॥ २ ॥ " गुरुगुणाश्च शास्त्रे बहुभिः प्रकारैः प्ररूपिताः, परं अत्र तु विस्तरभिया प्रसिद्धप्रकारेणैव प्रदर्शिता इति तत्त्वम् । तथा दृढानि व्रता| नि- महाव्रतानि यस्य स तथा, तथा यतिभिः - परिवारभूतसाधुभिर्युतः - मिश्रितः, तथा मुक्तेः परमपदस्यार्थी| अभिलाषी न तु सर्वथा सांसारिक सुखलेशस्पृहयालुः, तथा सङ्घः साधुसाध्वीश्रावकश्राविकारूपश्चतुर्विधस्तस्य संमतः- अभिमतः, न तु कस्याप्यबहुमतः, एतादृशो यतिः श्रुतानुयोगस्य - जिनप्रवचनव्याख्यानस्य याऽनुज्ञा-त्वं जिनप्रवचनं द्रव्यगुणपर्यायैरङ्गैर्व्याख्याहीति गुरोरनुशिष्टिस्तस्याः 'पात्रं' भाजनं भवति, आचार्यपदे स्थापनीयो भवतीत्यर्थः, यदुक्तम्- "देसकुलपभिइछत्तीसगुणगणालंकिओ दढचरित्तो । जयणाजुत्तो संघस्स, संमओ मुक्ख For Private & Personal Use Only गणानु योगानु ज्ञाधि० ॥१५७॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy