SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter सर्वं चतुरस्रं तस्माद्गच्छवासादिविधौ यत्नो विधेयः ॥ १२७ ॥ इत्थं च क्रियाकलापं कलयन् पूर्णपर्यायो गणानुज्ञायोग्योऽपि भवतीति तल्लक्षणं सापेक्षयतिधर्मं तत्क्रमप्रस्तावनां चाह अनुयोगगणानुज्ञाऽप्यनवद्यक्रमागता । तमेव सूत्रविदितं वर्णयामो यथास्थितम् ॥ १२८॥ 'अनुयोगगणानुज्ञाऽपि' अनुयोगः - अर्थव्याख्यानं गणो- गच्छस्तयोरनुज्ञा - अनुमतिर्न केवलं गच्छवासादिकार्यजातमित्यपिशब्दार्थः, साऽनुज्ञापयितुरनुज्ञाग्रहीतुश्च सापेक्षयतिधर्मो भवतीतिसंबन्धः । सा कीदृशीत्याह'अनवद्ये'ति, अनवद्येन अवद्यरहितेन 'क्रमेण' प्रव्रज्याशिक्षादिपरिपाटीलक्षणेन 'आगता' प्राप्ता, 'तमेव' क्रमं 'सूत्रविदितं ' सिद्धान्तोक्तं 'यथास्थितं' अविपरीतं 'वर्णयामो' वाग्विषयं कुर्मः ॥ १२८ ॥ प्रतिज्ञातमेवाह व्रतग्रहेऽष्टौ सूत्रार्थविहारे द्वादश क्रमात् । पञ्चचत्वारिंशवर्षे, योग्यतैवं गणिस्थितेः ॥ १२९ ॥ 'व्रतग्रहे' चारित्रप्रतिपत्तौ 'अष्टौ' वर्षाणि भवन्ति, 'तदहो परिभवखेत्त' मित्यादिनाऽष्टभ्यो वर्षेभ्योऽधचारित्रग्रहणप्रतिपत्तिनिषेधात्, तथा 'सूत्रार्थविहारे' इति समाहारद्वन्द्वस्ततः सूत्रे - सूत्रग्रहणेऽर्थे - अर्थग्रहणे विहारे - नाना देशदर्शनार्थमुपदेशपूर्वक विहरणे 'क्रमाद्' अनुक्रमेण द्वादश द्वादश वर्षाणि भवन्तीत्येवंरीत्या पञ्च| चत्वारिंशे वर्षे प्राप्ते 'गणिस्थिते:' अनुयोगगणानुज्ञाप्रदानविधेर्योग्यता- पर्यायौचिती भवतीत्यर्थः । आह च For Private & Personal Use Only w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy