SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ 93e धर्मसंग्रहे| न तूपस्थापनामात्रेण, यतः साऽभव्यानामपि स्यात्, सफला चेयं, छद्मस्थगुरूणामाज्ञाऽऽराधनात्, प्रायस्तद्विधेर्मु-19॥ गच्छवाअधिकारः क्तिफलत्वादयं नियमः, अन्यथा सामायिकमात्रतोऽनन्ताः सिद्धाः, इत्ययमफलः स्यात्, असदपि चैतच्चरणं सफलं विधिना गच्छवासादिना जातमनेकेषां गोविन्दवाचकादीनां पश्चात्, तस्माच्चारित्र एव यत्नः कार्यः, ज्ञानदर्शन योरपि तत्त्वदृष्ट्या फलमेतदेव चारित्रं, अतस्तद्विना ते अफले, तदाहु:-"निच्छयणयस्स चरणायविघाए णाण॥१५६॥ दसणवहोवि । ववहारस्स उ चरणे, हयंमि भयणा उ सेसाणं ॥१॥” इति । ननु 'सिझंति चरणरहिया, दंस णरहिआ ण सिझंती' त्यागमात्, सूत्रे दर्शनस्य प्राधान्यं श्रूयते तत्कथमेतत् ? इतिचेन्न, दीनारस्य विशिष्टसं-12 पदुत्पत्ताविवान्तरालिकचारित्रकार्यसंपादनेन सिद्धिहेतुतया दर्शनप्राधान्यव्यवस्थितेः, अत एव भावमङ्गीकृत्य क्रमभवनममीषामुक्तमागमे-"संमत्तंमि अ लद्धे, पलिअपहुत्तेण सावओ हुज्जा।चरणोवसमखयाणं, सागरसंखतरा हंति ॥१॥ एवं अप्परिवडिए, संमत्ते देवमणुअजम्मेसुं । अण्णयरसेढिवजं, एगभवेणं तु सवाणि ॥२॥" तस्माचरणाभावे न मोक्ष इति भावचरणं प्रतीत्य व्यवस्थितमिति। द्रव्यचरणप्रतिपत्तौ तु भजना, सोमेश्वरादीना-18 मन्तकृत्केवलिनामभावात्, तेषामपि भावचरणमन्तकृत्केवलित्वफलप्रदं भवान्तरीयद्रव्यचरणपूर्वमेव, उत्तमत्वात्, तादृशचरमशरीरत्वस्याऽनेकभवाभ्यस्तकुशलयोगसाध्यत्वात्, दुर्विजयो हि मोहोऽनेकभवैरेव जीयत ६ इति, मरुदेव्यादीनां त्वतथाभाव आश्चर्यभूतत्वादविरुद्धो, दशानामितरोपलक्षणत्वात् , तदुक्तं पञ्चवस्तुके-"णणु ह(य)मिहं पढिअं, सत्वं उवलक्खणाइ एअंतु। अच्छेरगभूअंति(अ), भणि अंपि अणवरयं ॥१॥” इति Jain Education Intel For Private Personel Use Only jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy