________________
नात्मन्यप्राज्ञतां विदन् । न विषीदन्न वा माद्येत्, प्रज्ञोत्कर्षमुपागतः॥२०॥ ज्ञानचारित्रयुक्तोऽस्मि, छद्मस्थोऽहं तथापि हि । इत्यज्ञानं विषहेत, ज्ञानस्य क्रमलाभवित्॥२१॥ जिनास्तदुक्तं जीवो वा, धर्माधर्मो भवान्तरम् । परोक्षत्वान्मृषा नैव, चिन्तयेत्प्राप्तदर्शनः॥२२॥ शारीरमानसानेवं, स्वपरप्रेरितान्मुनिः। परीषहान्सहेताभीर्वाक्कायमनसां वशी ॥२३॥ ज्ञानावरणीये वेद्य, मोहनीयान्तराययोः । कर्मसूदयमाप्तेषु, संभवन्ति परीषहाः ॥२४॥ वेद्यात्स्यात् || क्षुत्तृषा शीतमुष्णं दंशादयस्तथा । चर्या शय्या वधो रोगस्तृणस्पर्शमलावपि ॥ २५॥ प्रज्ञाऽज्ञाने तु विज्ञेयौ ज्ञानावरणसंभवौ। अन्तरायादलाभोऽमी, छद्मस्थस्य चतुर्दश ॥२६॥क्षुत्पिपासा शीतमुष्णं, दंशाश्चर्या वधो मलः।। | शय्या रोगस्तृणस्पर्शी, जिने वेद्यस्य संभवात् ॥ २७ ॥” उक्तं चान्यत्रापि “परीषहाणां समवतारो द्विधा, कर्म-18 प्रकृतिषु गुणस्थानेषु च, तत्राद्यो यथा दंसणमोहे सणपरीसहो पण्ण १ऽनाण २ पढममी। चरमेऽलाभपरीसह, सत्तेव चरित्तमोहंमी ॥१॥ अक्कोस १ अरइ २ इत्थी ३ निसीहिआ ४ चेल ५ जायणा ६ चेव । सक्कार ७ पुरकारे ८ एकारस वेयणीमज्झे ॥२॥ पंचेव आणुपुत्वी, चरिया सिज्जा तहेव जल्ले य ।वहरोगतणप्फासा, सेसेसुं नत्थि अवयारो ॥३॥” द्वितीयो यथा-"बावीसं बायरसंपराय चउदस सुहुमरागंमी । छउमत्थवीअरागे, चउदस एक्कारस जिणंमी॥४॥” एकस्मिन् काले चोत्कृष्टतो जघन्यतश्चैकप्राणिनि परीषहसंख्या यथा “वीसं उक्कोसपए वहति जहन्नओ अ एक्को ।सीओसिणचरिअनिसीहिआ य जुगवं न वदंति ॥१॥” इति। तदेतद्गच्छवासादिकार्यजातं विश्रोतसिकारहितमनुशीलयता लब्धःपरिणामो रक्षणीयः,अलब्धोऽप्यनेनैव प्रयत्नेन प्राप्यते
aosa90989300999
9
in Edutan in
For Private & Personal Use Only
Mw.jainelibrary.org