SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ रोप्यत इति । कुग्रहविरह-असदभिनिवेशवियोग, लघु-शीघ्र, करोतीत्यलं विस्तरेण । तथा “कालपरिहाणिदोसा इत्तो इक्काइगुणविहीणेणं । अन्नेणवि पव्वजा दायब्वा सीलवंतेणं॥१॥ गीअत्थो कडजोगी चारित्ती तय गाहणाकुसलो । अणुवत्तगोविसाई बीओ पव्वायणायरिओ॥२॥” इति । प्रव्राजकाईत्वमुक्तम्, अत्र च धर्मबिन्दौ दशपरतीर्थिकमतान्युपन्यस्तानि, तानि (च) विशेषज्ञानार्थिना तत एवावगन्तव्यानि ॥८४॥ इत्युक्ती प्रव्राज्यप्रव्राजको । अथ पूर्वमुक्तं 'विधिप्रवजित' इति अतः श्लोकद्वयन प्रव्रज्यादानविध्यभिधित्सया प्रथमश्लो18 केन प्रव्राज्यगतं द्वितीयश्लोकेन च प्रव्राजकगतं तमाह गुर्वनुज्ञोपधायोगो, वृत्त्युपायसमर्थनम् । ग्लानौषधादिदृष्टान्तात् , त्यागो गुरुनिवेदनम् ॥ ८५॥ प्रश्नः साधुक्रियाख्यानं, परीक्षा कण्ठतोऽर्पणम्।सामायिकादिसूत्रस्य, चैत्यनुत्यादि तद्विधिः।हायुग्मम्।। all गुर्वनुज्ञादिस्तद्विधिः-तस्याः प्रव्रज्याया (विधिः) इतिकर्तव्यार्थोपदेशो भवतीत्यन्तेन सम्बन्धः, तत्र गुरवो-18 मातापित्रादयस्तस्या(स्तेषाम)नुज्ञा-प्रव्रज त्वमित्यनुमतिरूपा गुर्वनुज्ञा, यदा पुनरसौ तत्तदुपायतोऽनुज्ञापितोऽपि नमुश्चति तदा यद्विधेयं, तदाह-'उपधायोग' इति उपधा-माया तस्या योग:-प्रयोजनं, सा च तत्तत्प्रकारैः सर्वथा परैरनुपलक्ष्यमाणैः प्रयोज्या, ते च प्रकारा इत्थं धर्मबिन्दौ प्रोक्ताः, तद्यथा-'दुःखमादिकथन मिति दुःस्वप्नस्यखरोष्ट्रमहिषाद्यारोहणादिदर्शनरूपस्य, आदिशब्दात् मातृमण्डलादिविपरीतालोकनादिग्रहः, तस्य कथनं-गुवा Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy