SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ पधिं गृह्णन्ति, शेषमाभिग्रहिका विभज्य गृह्णन्ति, तदभावे च समर्थसाधवः तत्रैकस्कन्धे गुरूपधिवीटिकां द्वितीये । च स्वस्य कुर्वन्ति, ततः प्रत्युपेक्षकदर्शितमार्गक्रमेण मूलग्रामं प्राप्ताः प्रथमंक्षेत्रप्रत्युपेक्षकाश्चिलीमिलीदण्डकयो|ञ्छने गृहीत्वा यान्ति, शय्यातरस्य च गुर्वागमनं निवेद्य वसतिं प्रमायं द्वारे च चिलिमिलीं बद्धा मुक्त्वैकं धर्मकथिकं व्यावृत्त्य च गुरूणां निवेदयन्ति, ततो वृषभाः शकुनान परीक्षमाणा अक्षान् गृहीत्वा पुरतो यान्ति, गुरूणांप्राग्गमने तुसव्याघातवसतिनिमित्तकपश्चाद्बलनेन हीलना स्यात्,ततःशेषाःस्पर्द्धकेन स्पर्द्धकेन प्रविशन्ति नतु सर्वेऽपि पिण्डीभूय, यश्च धर्मकथकः स्थितः स सागारिकस्य धर्मकथां करोति, स चाचार्य मुक्त्वा ज्येष्ठानामप्यन्येषां नाभ्युत्थानं करोति, ततः शुभशकुनैर्वृषभेषु प्रविष्टेषु सूरयः प्रविशन्ति, प्रविशद्भिश्च तैः शय्यातरो द्रष्टव्योऽनालपन्नप्यालाप्यः, धर्मकथी चोत्तिष्ठति, खयश्च धर्मकथां कथयति, क्षेत्रप्रत्युपेक्षकाश्च ग्लानार्थ शय्यातरानुज्ञातां प्रश्रवणपात्रधावनादिभूमिं दर्शयन्ति, अर्पयन्ति च संस्तारकभूमीस्तिस्रो गुरूणां शिष्याणां च यथारत्नाधिकतयैकैकां, तैरपि खखविण्टिकोत्क्षेप्या, तथा क्षपकान् प्रविशतश्चैत्यानि वन्दमानानव स्थापनाकुलानि दर्शयन्ति, भक्तार्थिनस्तु द्वित्रा उद्गाहितपात्राः शेषाश्चानुदाहितपात्रास्तु त्रिभिः समं चैत्यानि वन्दन्ते, गृहचैत्यानि वन्दन्ते, गृहचैत्यानि वन्दनार्थं तु गता गुरवः कतिपयैरेव साधुभिरुद्गाहितपात्रकैः समं यान्ति, निमब्रिताश्च भक्तपानं गृह्णन्ति, तत्र प्रागुक्तानि दानादिकुलानि क्षेत्रप्रत्युपेक्षका दर्शयन्ति, दृष्ट्रा च गुरव उपाश्रये आगता ईर्यापथिकीकायोत्सर्गानन्तरं सर्वान् साधूनाकार्य तानि कुलानि व्यवस्थापयन्ति, यदुताभिग्रहिकमिथ्या Jain Education into For Private 3 Personal Use Only wjainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy