SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte धारयन्तीत्यर्थः, तदुक्तम् - "बाले बुड्ढे सेहे, आयरिय गिलाण खवग पाहुणए । तिन्नि अ काले जहिअं, भिक्खायरिया य पाउग्गा ॥ १ ॥” इति । तत्र चैष क्रमः - प्रातौं साधू सङ्घाटकेन पर्यटतस्तृतीयो रक्षपाल आस्ते, तदैकस्योदरपूरकमाहारं गृहीत्वा प्रत्यावर्तेते, द्वितीयस्यां वेलायां तयोर्मध्यादेक आस्तेऽपरः प्रथमव्यवस्थितं गृहीत्वा प्रयाति, तदाप्येकस्यैव भिक्षामानयतस्तृतीयस्यां वेलायां तु द्वितीयवेलारक्षपालः प्रथमव्यवस्थितरक्षपालेन सह पर्यटति, यश्च वारद्वयं पर्यटति स तिष्ठति, एवं त्रयाणां जनानां द्वौ द्वौ वारौ पर्यटनं योजनीयम्, किंच - "ओसह भेसजाणि य, काले अ कुले अ दाणसड्डाई। सग्गामे पेहित्ता पेहंति तओ परग्गामे ॥१॥" अत्र च दानश्राद्धादीनि कुलानि यथा "दाणे अभिगमसड्ढे, सम्मत्ते खलु तहेव मिच्छन्ते । मामाए अचियत्ते, कुलाइँ जाणंति गीअत्था ॥ १ ॥ दानश्राद्धानि प्रकृत्यैव दानरुचीनि, अभिगमश्राद्धानि प्रतिपन्नाणुव्रतानि, मामकानि मा मदीयं गृहं श्रमणाः प्रविशन्त्विति प्रतिषेधकारीणीति", तथोपाश्रयान् सदोषान् निर्दोषान् वा जानन्ति, ज्ञात्वा च पूर्वाभिमुखवामपार्श्वोपविष्टवृषभाकारं क्षेत्रं बुद्ध्या परिकल्प्य प्रशस्तस्थानेषु वसतिं गृह्णन्ति, ताश्च गृह्णद्भिर्गच्छयोग्यं तृणडगलछारमल्लकादि वस्त्रपात्रयोर्बहिर्द्धावनस्थानं स्वाध्यायादिहेतोः प्राङ्गणादाववस्थानमकालसंज्ञाव्युत्सर्जनं ग्लानस्य प्राघूर्णकादेर्वा निवातप्रवाताद्यवकाशस्थापनेन समाधिसम्पादनञ्चानुज्ञापनीयं, अथ च कियच्चिरं भवन्तोऽत्र स्थास्यन्तीतिशय्यातरेण पृष्ठे यावद्युष्माकं गुरूणां च प्रतिभाति तावदेव स्थास्यामः, स्थितिस्त्वस्माकमेकत्र क्षेत्रे निर्व्याघाते मासमेकं व्याघाते तु हीनमधिकं वेति वदन्ति, नतु निर्द्धारवाक्यं, तथा कियन्तो यूयमिहाव For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy