SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१४७॥ Jain Education In | नगरादिकं गत्वा तत्र महर्द्धिकान् बहून् श्रावकानुपार्जयामि तथा च करोमि यथा मां विहायाऽपरस्य ते भक्ता न भवन्तीत्यादिद्रव्यप्रतिबन्धेन तथा निवातवसत्यादिजनितरत्युत्पादकममुकक्षेत्रं, इदं तु न तथाविधमित्यादिक्षेत्रप्रतिबन्धेन, तथाऽस्मिन्नृतावमुकक्षेत्रं सरसमित्यादिकालप्रतिबन्धेन, तथा स्निग्धमधुराद्याहारादिलाभेन, तत्र गतस्य मम शरीरपुष्ट्यादिसुखं भविष्यत्यत्र तु न तत्संपद्यते, अपरं चैवमुद्यतविहारेण विहरन्तं मामेवोद्यतं लोका भणिष्यन्त्यमुकं तु शिथिलमित्यादिभावप्रतिबन्धेन च मासकल्पादिना विहरति तदाऽसौ विहारोऽपि कार्यासाधक एव, तस्मादवस्थानं बिहारो वाऽप्रतिबद्धस्यैव साधुरिति । कारणतश्च न्यूनाधिकमपि मासकल्पं कुर्यात् । कारणानि च द्रव्यादिदोषाः, तत्र द्रव्यदोषो भक्तपानादीनां शरीराननुकूलता, क्षेत्रदोषः संयमाननुगुणत्वादिः, कालदोषो दुर्भिक्षादिः, भावदोषो ग्लानत्वज्ञानादिहानिः, एषु च सत्सु बहिर्वृत्त्या मासकल्पविहाराभावेऽपि भावतो वसतिपाटकसंस्तार भूमि परावर्त्तनादिभिरपि मासं मासं स्थानव्यत्ययं कुर्वीतैकत्र ग्रामादौ यदुक्तमेतदेव सपूर्वपक्षं पञ्चवस्तुके- "मोत्तूण मासकप्पं, अण्णो सुत्तंमि | णत्थि उ विहारो । ता कहमाइग्गहणं ?, कज्जे ऊणाइभावाओ ॥ १ ॥ तथा 'कालाइदोसओ जइ, न दवओ एस | कीरई णिअमा । भावेण तहवि कीरइ, संधारगवच्चयाईहिं ॥ २ ॥” एवं च भावेन स्थानपरावृत्तिं कुर्वतामेकत्र स्थितानामपि यतीनामविरुद्धमेव, यतः- “पंचसमिआ तिगुत्ता, उज्जुत्ता संयमे तवे चरणे । वाससंयंपि वसंता, मुणिणो आराहगा भणिआ ॥ १ ॥” विहारश्चायतनावतामपि भवतीत्याह - 'सम्यगिति द्रव्यादियतनया For Private & Personal Use Only विहारसामाचारी ॥ १४७॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy