SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ रोषतोषाद्यवस्थायामप्यलब्धमध्यः ११ । तथा 'अविषादी' न विषादवान् , कुत्र ?-'उपसर्गादिपराभवे' उपसर्गपरिषहाद्यभिद्रुतः कायसंरक्षणादौन दैन्यमुपयातीत्यर्थः १२। तथा 'उपशमलब्ध्यादियुक्तः' उपशमलब्धिःपरमुपशमयितुं सामर्थ्यलक्षणा, आदिशब्दादुपकरणलब्धिः स्थिरहस्तलब्धिश्च गृह्यते । ततस्ताभिः [संयुक्तःसंपन्नः १३ । तथा सूत्रार्थ-प्रवचनार्थं भाषते-वक्तीति सूत्रार्थभाषकः, यथावस्थितागमार्थप्रज्ञापकः १४ । तथा| 'खगुर्वनुज्ञातगुरुपदः' खगुरुणा-गच्छनायकेनानुज्ञातगुरुपदः-समारोपिताचार्यपदवीक इति धर्मबिन्दुवृत्ती व्या| ख्यातं । पञ्चवस्तुविवरणे तु-"खगुर्वनुज्ञातगुरुपदश्चैव, असति तस्मिन् दिगाचार्यादिना स्थापितगुरुपद इत्यर्थः"। चकारो विशेषणसमुच्चये, इतिशब्दो गुरुगुणेयत्तासूचकः। ईदृशेन गुरुणा घिनेयानुग्रहार्थं प्रव्रज्या दातव्येति भावार्थः, यतः पश्चवस्तुके-"एआरिसेण गुरुणा सम्मं परिसाइकजरहिएणं । पव्वजा दायव्वा तयणुग्गहणि-18 जराहेऊ ॥१॥” इति १५। अत्र षोडश प्रव्रज्याईगुणाः पञ्चदश पुनर्गुरूणां गुणा निरूपिता इति, उत्सर्गपक्षश्चायं, अथात्रैवापवादमाह-पादा'त्यादि पादेन-चतुर्थभागेन अर्द्धन-प्रतीतरूपेण प्रस्तुतगुणानां हीनौ-न्यूनौ तौप्रव्राज्यप्रव्राजको मध्यमावरौ-मध्यमजघन्यौ क्रमेण योग्यौ स्यातामिति । पञ्चवस्तुके त्वेवम्-कालपरिहाणिदोसा एत्तो एक्काइगुणविहीणोवि । जे बहुगुणसंपन्ना ते जोग्गा हुंति णायव्वा ॥१॥” इति द्वितीयपदे प्रव-IS ज्याहत्वमुक्तम् , अत एव देशविरतानामिव यथाभद्रकानामपि कतिपयगुणवतां संयमनिर्वाहयोग्यतां परिज्ञाय प्रव्रज्यादानं कुर्वते गीतार्थाः, तच्च तत्तद्गुणवतामुत्तरोत्तरगुणहेतुतया परिणमति अव्युत्पन्नदशायां च Jain Education Intel For Private Personel Use Only How.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy