SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Jain Education Int तेषां च हस्ताद्ग्रहणे उद्गमादिदोषाः प्रतिसेविता भवन्ति, उक्तं च- "पासत्थोसन्नाणं, कुसीलसंसत्तनी अवासीणं । जे भिक्खू मसणाई, दिज पडिच्छिज वाऽऽणाई ॥ १ ॥ उग्गमदोसाईआ, पासत्थाई जओ न वज्रंति । तम्हा उ तविसुद्धी, इच्छंतो ते विवज्जिज्जा ॥ २ ॥ सइज्जइ अणुरागो, दाणाणं पीइओ अ गहणं तु । संसग्गया य दोसा, | गुणा अ इअ ते परिहरेज्जा ॥ ३ ॥ " पार्श्वस्थादीनां वस्त्रदाने तेषां हस्तात् प्रातिहारिकग्रहणे च चतुर्लघुकमेव, | पार्श्वस्थादीनां वाचनादाने तेभ्यो वा वाचनाग्रहणे सूत्रे चतुर्लघु अर्थे चतुर्गुरु यथाछन्दानां सूत्रे चतुर्गुरु अर्थे षट्लघु, अनेकदिनवाचनासु पुनः 'सत्तरतं तवो होइ' इत्यादिक्रमेण प्रायश्चित्तवृद्धिरुपढौकते । पार्श्वस्थादिषु वाचनादानादानयोर्वन्दनकदुष्टसंसर्गादयोऽनेके दोषा इत्येवमुत्सर्गतः पार्श्वस्थादीनां वन्दनाद्यपि न कार्यमिति स्थितं । कारणतस्तु कल्पते, तत्रादौ वन्दनं दर्श्यते, तथाहि - " गच्छपरिरक्खणट्ठा, अणागयं आउवायकुसलेणं । एवं गणाहिवइणा, सुहसीलगवेसणा कुज्जा ॥ १ ॥ " व्याख्या - अवमराजद्विष्टादिषु ग्लानत्वे वा यदशनपानाद्युपग्रहकारणेन गच्छपरिपालनं तदर्थमनागतमवमादिकारणेऽनुत्पन्न एव, 'आयोपायकुशलेन' आयो नाम पार्श्वस्था देः पार्श्वान्निष्प्रत्यूह संयमपालनादिको लाभः, उपायो नाम तथा कथमपि करोति यथा तेषां वन्दनमददान एव शरीरवार्त्ता गवेषयति, न च तथा क्रियमाणे तेषामप्रीतिकमुपजायते स्वचेतसि च ते चिन्तयन्ति - 'अहो एते स्वयं तपखिनोऽप्येवमस्मासु स्निह्यन्ति' तत एतयोरायोपाययोः कुशलेन गणाधिपतिना एवं वक्ष्यमाणप्रकारेण | सुखशीलानां गवेषणा कार्या । तत्र येषु स्थानेषु कर्त्तव्या तानि दर्शयति- "बाहिं आगमणपहे, उज्जाणे देउले For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy