SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ परीतपरिणाम इतियावत्, स च तथाभूतःसन् कुशीलसंसर्गतो विनश्येत्, वैडूर्यनडादीनि त्वभाव्यद्रव्याणीति न तदृष्टान्तोपष्टम्भेन जीवस्यापि संसर्गजखभावाननुविधायित्वमितिभावः । अपि च-जीवोऽपि केवली तावदभाव्य एव, अभव्योऽपि च, सरागास्तु पार्श्वस्थादिभिर्भाव्याः, सरागा अपि परिपाकप्राप्तयोगा उत्कृष्टज्ञानपरिणतिशालिनो यद्यप्यभाव्यास्तथापिमध्यमदशावर्त्तिनो भाव्या एव, अतः स्तोकोऽपि तेषामालापमात्रादिलक्षणः संसर्गः सुविहितानां प्रतिषिद्धः, उक्तं च-"ऊणगसयभावेणं, बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा बजेह कुसीलसंसरिंग ॥१॥” अस्या अर्थ:-ऊनश्चासौ शतभागश्चोनशतभागो, यावता शतभागोऽपि न पूर्यत इत्यर्थः तेन तावतांशेन प्रतियोगिना सह संबद्धानीतिप्रक्रमाद्गम्यते, बिम्बानि-रूपाणि, परिणमन्ति तद्भावं लवणीभवन्तीत्यर्थः, लवणाकरादिषु यथा, आदिशब्दात् खण्डवादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति । तथा पार्श्वस्थाद्यालापमात्रसंसापि सुविहितास्तमेव भावं यान्ति ततो वर्जयत कुशीलसंसर्गीमिति । अयं च संविग्नबहुलकालापेक्ष उत्सर्गः, संक्लिष्टकालवशात्तादृशसहायालाभे तु पार्श्वस्थादीनामन्यतरेणापि सह वसति, यत उक्तं पञ्चकल्पभाष्ये-“कालंमि संकिलिट्टे, छक्कायदयावरोवि संविग्गो। कयजोगीणमलंभे, पणगन्नयरेण संवसइ ॥१॥” 'पणगन्नयरेणं ति पार्श्वस्थादीनां पञ्चानामेकतरेण न तु व्यादिदोषसंयोगवता, दोषगुणसंयोगतारतम्ये विराधकत्वाराधकत्वतारतम्यव्यवस्थितेः। तदुक्तमुपदेशमालायाम्-"एगागी पासत्थो, सच्छंदो ठाणवासि ओसन्नो। दुगमाई संजोगा, जह वहुआ तह गुरू हुति॥१॥गच्छगओ अणुओगी, Jan Education in For Private Personel Use Only Paw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy