________________
व्रताति
धर्मसंग्रहे मढछत्ततुल्लो वासो उणगच्छवासो उ॥१॥” तथा 'कुसंसर्गत्याग' इति कुत्सितः साधुजनैर्निन्दनीयः-संसर्गः। अधिकारःसहवासादिस्तस्य त्यागो-वर्जन, अन्वयः प्राग्वत् । कुसंसर्गश्च साधूनां पार्श्वस्थादिभिः पापमित्रैः सह संबंध-चाराः
रूपः, तैः सहवासे हि खस्मिन्नपि तादृग्भावापत्तिरवश्यंभाविनी, यतः-"जो जारिसेण संगं, करेइ सो तारिसो18ऽचिरा होइ । कुसुमेण सह वसंता, तिलावि तग्गंधया जाया ॥१॥” ततश्च पार्श्वस्थादिसंसर्गी अपि शास्त्रे ॥१४३॥
गर्हणीयतयोक्ता, तथा चावश्यकम्-"असुइट्ठाणे पडिआ, चंपकमाला ण कीरइ सीसे । पासत्थाईठाणेसुं, वमाणा तह अपुजा ॥१॥ पक्कणकुले वसंतो, सउणीपारोवि गरहिओ होइ । इअ गरहिआ सुविहिआ, मज्झि वसंता कुसीलाणं ॥१॥” इति । ननु कः पार्श्वस्थादिसंसर्गमात्राद्गुणवतो दोषः ? न हि काचमणिकैः सह प्रभूतकालमेकत्र तिष्ठन्नपि विडूर्यमणिः काचभावमुपैति, खगुणप्राधान्यात्, न वा नलस्तम्ब इक्षुवाटमध्ये वसन्नपीक्षुसंसर्गतो मधुरत्वमुपयाति, स्वदोषप्राधान्यात् , तथा चान्यत्रापि-"असाधुः साधुर्वा भवति खलु जात्यैव पुरुषः, न सङ्गाद्दौर्जन्यं न च सुजनता कस्यचिदहो । प्ररूढे संसर्गे मणिभुजगयोजन्मजनिते, मणि हेदोषान् स्पृशति न च सो मणिगुणान् ॥१॥" तदेवं गुणवानपि पार्श्वस्थादिसंसर्गेण न गुणांस्त्यक्ष्यति इतिचेन्मैवं, द्रव्याणां विचित्रपरिणामत्वात् , तथाहि-द्विविधानि द्रव्याणि-भाव्यानि अभाव्यानि च, तत्र भाव्यन्ते खप्रति-I ॥१४॥ योगिना खगुणैरात्मभावमापाद्यन्त इति भाव्यानि, अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलानि भाव्यानि तद्विपरीतान्यभाव्यानि,तत्रजीवोभाव्यगव्यं, अनादिकालीनपार्श्वस्थाद्याचरितप्रमादभावनाऽऽपाद्यवि
Jain Education Intematon
For Private & Personel Use Only
www.jainelibrary.org