________________
व्रताति
चारा
धर्मसंग्रहे नयतीति तच्छुद्ध्यर्थं प्रायश्चित्तं 'प्रायः पापं विनिर्दिष्टं, चित्तं तस्य विशोधन' मित्युक्तेः, अथवा प्रकर्षण-अयते अधिकारः गच्छत्यस्मादाचारधर्म इति प्रायो-मुनिलोकस्तेन चिन्त्यते-स्मयतेऽतिचारविशुद्ध्यर्थमिति निरुक्तात्मायश्चित्तमनु
छानविशेषः, तच दशविधमुपरिष्टाद्वक्ष्यते, तथा विनीयते-क्षिप्यतेऽष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञाना
दिभेदात्सप्तधा, यदाहु:-"नाणे दंसणचरणे, मणवयकाओवयारविणओ अ।नाणे पंचुवयारो, मइनाणाईण ॥१४॥
सद्दहणं ॥१॥ भत्ती तह बहुमाणो, तद्दिद्वत्थाण सम्मभावणया । विहिगहण-भासोवि अ, एसो विणओ जिणाभिहिओ॥२॥" शुश्रूषादिश्च दर्शनविषयः, यदाहु:-"मुस्सूसणा यऽणासायणा य विणओ अ दंसणे, दुविहा । दसणगुणाहिएमुं किजइ सुस्सूसणाविणओ ॥१॥ सकारोऽब्भुट्ठाणं, सम्माणासणअभिग्गहो तह य । आसणअणुप्पयाणं, किइकम्मं अंजलिगहो अ ॥२॥ इंतस्सणुगच्छणया, ठिअस्स तह पजुवासणाभिहिआ। गच्छंताणुव्वयणं, एसो सुस्सूसणाविणओ ॥३॥” सत्कारः स्तवनादिभिः, सन्मानो वस्त्रादिभिः, आसनाभिग्रहस्तिष्ठतेतिनिवेदनं, आसनानुप्रदानं च स्थानात्स्थानान्तरे आसनस्य मोचनं, शेषं स्पष्टं । अनाशातनाविनयः पुनः पञ्चदशविधः, स च यथा-"तित्थयर १ धम्म २ आयरिअ ३ वायग ४ थेरे ५ कुले ६गणे ७) संघे ८। संभोइअ ९ किरिआए १०, (क्रिया चास्तिवादरूपा) मइनाणाईण य तहेव य १५॥१॥ कायवा पुण भत्ती, बहुमाणो तहय वन्नवाओ य । अरहंतमाइआणं, केवलनाणावसाणाणं ॥२॥" भक्तिर्बाह्या प्रतिपत्तिः, बहुमानश्चान्तरःप्रीतिविशेषः, वर्णवादो गुणग्रहणं, चारित्रविनयः पुनः “सामाइआइचरणस्स सद्दहाणं तहेव
॥१४॥
Jain Education Inter
For Private Personal use only
w.jainelibrary.org