SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ चउवीस तहेक्कतीसा य ॥१॥" अयं भावः-अल्पाहारोनोदरिका एककवलादारभ्याष्टौ यावत् अत्राप्येककवलमाना जघन्याऽष्टकवलमानोत्कृष्टा, शेषा तु मध्यमा, एवमग्रेऽपि भाव्यं । आहारमानं तु पुंसां द्वात्रिंशत्कवला: स्त्रियस्त्वष्टाविंशतिरिति तदनुसारेण न्यूनाहारादिकं भावनीयं, भावत ऊनोदरिका क्रोधादित्याग इति । तथा|| वर्त्ततेऽनयेति वृत्तिः-भैक्ष्यं तस्याः संक्षेपणं-हासः, तच्च दत्तिपरिमाणकरणरूपं एकद्वित्र्याचगारनियमो रथ्याग्रामा ग्रामनियमश्च । अत्रैव द्रव्याद्यभिग्रहा अन्तर्भवन्ति । तथा रसानां मतुब्लोपाद्विशिष्टरसवतां वृष्याणां विकारहेतूनामत एव विकृतिशब्दवाच्यानां मद्यादिचतुर्णा दुग्धादिषण्णां च त्यागो-वर्जनं रसत्यागः। तथा काय:-शरीरं तस्य संक्लेशः-शास्त्राविरोधेन बाधनं, अत्र च तनोरचेतनत्वेऽपि शरीरशरीरिणोः कथश्चिदभेदात् कायक्लेश आत्मक्लेशोऽपि संभवत्येव स च विशिष्टासनकरणेनाप्रतिकर्मशरीरत्वकेशोल्लुश्चनादिना वाऽवसेयः, अयं च वकृतक्लेशानुभवरूपः परीषहास्तु खपरकृतक्लेशरूपा इति कायक्लेशस्य परीषहेभ्यो भेदः।तथा संलीनतागुप्तता, सा चेन्द्रियकषाययोगविषया विविक्तशय्यासनता चेति चतुर्द्धा, इन्द्रियादिगुप्तता च व्याख्यातप्राया, विविक्तशय्यासनतां चैकान्तेऽनाबाधे असंसक्ते पशुपण्डकादिवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमस्मिन् स्थानेऽवस्थानं इति षट्प्रकारं बाह्यं तपः । बाह्यत्वं च बाह्यद्रव्याद्यपेक्षत्वात् परप्रत्यक्षत्वात् बाह्यशरीरतापकत्वात् कुतीर्थिकैगृहस्थैश्चापि विधेयत्वाच । आभ्यन्तरं तपस्त्वेवम्-"पायच्छित्तं विणओ, वेआवचं तहेव सज्ज्ञाओ । झाणं उस्सग्गोवि अ, अभितरओ तवो होइ ॥१॥" मूलोत्तरगुणेषु खल्पोऽप्यतिचारश्चित्तं मलि-18| Jain Education int For Private Personel Use Only O w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy