SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ धर्मग्र अधिकारः ३ ॥१४०॥ | ज्ञानादिपञ्चाचाराणां पालनं च यथागमम् । गच्छवास कुसंसर्गत्यागोऽर्थपद चिन्तनम् ॥ ५४ ॥ ज्ञानादयो - ज्ञानदर्शनचारित्रतपोवीर्यरूपास्ते च ते पञ्चाचाराश्च तेषां 'पालनं' आराधनं तच्चान्यथापि स्यादि - त्यत आह-'यथागमं' इति आगमानुसारेण तत्सापेक्षयतिधर्मो भवतीत्यन्वयः । तत्र ज्ञानं सम्यकूतत्त्वावबोधस्तद्धेतुत्वादत्र द्वादशाङ्गादिकं श्रुतज्ञानं गृह्यते, दर्शनं सम्यक् श्रद्धानं, चारित्रं सर्वसावद्ययोगानां ज्ञानश्रद्धानपूर्वकं त्यागः, तप इच्छानिरोधलक्षणं, वीर्यं च शक्तिस्फोरणं, एषु ज्ञानदर्शनचारित्राचाराः प्रत्येकमष्ट, ते च प्राक् | देशनाधिकारे धर्मविन्दुपाठेन दर्शिता एव तद्विपरीताश्च तपआचाराश्च द्वादश, तत्र षट् बाह्याः षट्र आभ्यन्तराश्च तत्र बाह्याः षट् यथा - " अणसणमूणोअरिआ, वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया यबज्झो तवो होइ ॥ १॥" अनशनमाहारत्याग इत्यर्थस्तत्पुनर्द्विधा - इत्वरं यावत्कथिकं च, इत्वरं नमस्कारसहितादि श्रीवीरतीर्थे षाण्मासिकान्तं, श्रीनाभेयतीर्थे संवत्सरपर्यन्तं, मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् यावत्कथिकं तु पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति, एषां च स्वरूपं मूल एवं स्फुटीभविष्यति । तथा ऊनमवममुदरं यस्य स ऊनोदरस्तस्य भाव ऊनोदरता, व्युत्पत्तिरेवेयं, अस्य प्रवृत्तिस्तूनतामात्रे, सा द्रव्यभावाभ्यां द्विधा, तत्र- द्रव्यत उपकरणभक्तपानविषया, तत्रोपकरणविषया जिनकल्पिकादीनां, भक्तपानविषया चाल्पाहारादिभेदतः पञ्चविधा, यदाहुः - अप्पाहार १ अवडा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अट्ठ दुवालस सोलस Jain Education International For Private & Personal Use Only व्रताति चाराः ॥१४०॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy