________________
ecemercercedeoesesenecesee
गृहीतं दिवाभुक्तं पूर्वदिनगृहीतस्यापरदिने भोजनमित्यर्थः इत्याद्यो भङ्गः १, दिने गृहीतं रात्रौ भुक्तमिति द्वितीयः २, रात्रौ गृहीतं दिने भुक्तमिति तृतीयः३,रात्रौ गृहीतंरात्रौ च भुक्तमिति चतुर्थः ४, एते चत्वारोऽपि भङ्गास्तथाविधपरिणामयोगादतिचाराः, आदिशब्दादतिमात्राहारादिपरिग्रहः इत्युक्ताः षष्ठव्रतातिचाराः। अथ || प्रकारान्तरेण मूलगुणेषुत्तरगुणेषु च साधारणी दोषभावनामाह-'सर्वेष्वपी'त्यादि सर्वेषु-समस्तेषु न केवलमे-15 कादिव्रते इत्यपिशब्दार्थः । 'एषु' मूलगुणोत्तरगुणेषु 'दोषा' मलाः "अतिक्रमादिभिः' अतिक्रमव्यतिक्रमातिचारानाचारैवेति पक्षान्तरे विज्ञेयाः, अतिक्रमादिस्वरूपं त्वेवमाधाकर्माश्रित्योक्तं व्यवहारभाष्ये-"आहाकम्म-11 निमंतण पडिसुणमाणे अइकमो होइ। पयभेआइ वइक्कम गहिए तइअतरो गलिए ॥१॥ व्याख्या-आधाकाङ्गीकरणाद्यावदुपयोगपरिसमाप्तिस्तावदतिक्रमः, तद्हणाय पदभेदकरणे यावद्हे प्रवेशनं तावयतिक्रमः, पात्रप्रसारणेऽप्ययमेव, आधाकर्मणि गृहीते उपलक्षणमेतत् यावदसतौ समानीते गुरुसमक्षमालोचिते भोजनार्थमुपस्था|पिते मुखे प्रक्षिप्यमाणेऽपि च यावन्नाद्यापि गिलति तावत्तृतीयोऽतिचारलक्षणोदोषः, गिलिते त्वाधाकर्मण्यनाचार इति, एवं च भावना मूलगुणेषु उत्तरगुणेषु च कार्या। अत्रायं विवेकः-मूलगुणेषु अतिक्रमादिभिस्त्रिभिश्चा-18 रित्रस्य मालिन्यं, तस्य चालोचनप्रतिक्रमणादिभिः शुद्धिः, चतुर्थेण तु भङ्ग एव, तथा च सति पुनरुपस्थापनैव युज्यते, उत्तरगुणेषु तु चतुर्भिरपि चारित्रस्य मालिन्यं, न पुनर्भङ्ग इत्युक्ता मूलोत्तरगुणातिचाराः ॥ १२४ ॥ साम्प्रतं मूलगुणेषूक्तप्रायाणामपि ज्ञानाद्याचाराणां मुख्यत्वख्यापनार्थ तत्पालनस्य खातब्येणाभिधित्सयाह
in Education inte
For Private Personel Use Only
S
w.jainelibrary.org