SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१३९॥ णिग्गथिं वा गिण्हमाणे वा लंबमाणे (वा) णाइकमइ' त्ति” अर्थो द्रव्यं तेन जातं - प्रयोजनं यस्याः साऽर्थजातिका | तामिति व्याख्यानं [संयमस्थिताया अपि ह्यर्थजातमुत्पद्यते एभिः स्थानैः, तदुक्तं कल्पनिर्युक्तौ - "सेवग भज्जा ओमे, आवणमाणंत बोहिए तेणे। एएहिं अट्ठजायं, उप्पज्जइ संजमठियाए ॥१॥" अयं भावः - कोऽपि राजसेवको स्वभार्यां परिष्ठाप्य देशान्तरे गतः, सा च निष्क्रान्ता, ततः सोऽर्थजातं मार्गयति, तदाऽग्लानापि ग्लानकरणाद्युपायेन रक्ष्या, एवमपि तेनामुच्यमानायामर्थजातमपि दत्त्वा तस्मान्मोच्या । तथा कोऽपि वणिग् सकुटुम्बोऽपि प्रवित्रजिपुरव्यक्तां दारिकां मित्रगृहे निक्षिप्य प्रव्रजितः, काले च मित्रभूतो मृतः, ततो दुर्भिक्षे जाते तदीयैः पुत्रैरनाद्रियमाणा सा कस्यापि दासत्वं प्राप्ता, तस्याश्च पितुः कालान्तरे तत्रागमनं तेन च तत् सर्वं ज्ञात्वा तन्मोचनार्थं | कथाप्रसङ्गेन प्रबोधः कृतः, तथाप्यमोचने निष्क्रामता स्थापितं (यत्) द्रव्यं तद्गृहीत्वा समर्प्य, तस्याभावे | निजकानां गवेषणया तदुत्पादनीयं, एवमग्रेऽपि भावना कार्या] सर्वत्रापि परिणाममाश्रित्यातीचार भावना ज्ञेया ॥ १२३ ॥ इत्युक्ताः पञ्चमव्रतातिचाराः । अथ षष्ठव्रतस्य तानाह दिनात्तदिन भुक्तादिचतुर्भद्यादिरन्तिमे । सर्वेष्वप्येषु विज्ञेया, दोषा वातिक्रमादिभिः ॥ ५३ ॥ दिने - दिवसे आत्तं - गृहीतं दिनात्तं तच तद्दिनभुक्तं च सन्निधिपरिभोगेन तद्दिनात्तदिनभुक्तं तदादिर्यस्यां सा चासौ चतुर्भङ्गी च भङ्गचतुष्टयं तदादिस्तत्प्रभृतिरन्तिमे - षष्ठे व्रतेऽतिचारो भवतीति प्रक्रमाद् ज्ञेयं । तत्र दिवा Jain Education International For Private & Personal Use Only Ale व्रताति 'चाराः ॥१३९॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy