SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 'ब्रह्मव्रते' मैथुनव्रते अतिचारः तुशब्दो विशेषणार्थः, करकर्मादिः, तथा च परिणामवैचित्र्येण तदीयगुप्तीनां'। |तस्य-ब्रह्मव्रतस्येमास्तदीयास्ताश्च ता गुप्तयश्च-स्यादिसंसक्तवसतित्यागादिरूपास्तासां 'सम्यक्' भावशुद्ध्या रहा 'अननुपालनं' अनाचरणं भवतीति संबन्धः, यतः-"मेहुणस्सइआरो, करकम्माई उ होइ णायवो । तग्गुत्तीणं| च तहा, अणुपालणमो ण सम्मं तु ॥१॥"॥१२२ ॥ इत्युक्तास्तुर्यव्रतातिचाराः, अथ पञ्चमस्य तानाह18| काकादिरक्षणं बालममत्वं पञ्चमेऽप्यणुः । द्रव्यादिग्रहणं लोभात् , स्थूलश्चाधिकधारणम् ॥ ५२॥ 'पञ्चमेऽपि परिग्रहवते न केवलं पूर्वेष्वित्यपिशब्दार्थः, काको-ध्वाज आदिशब्दात् श्वगोणादिग्रहणं, तेभ्यो रक्षणं-आहारादेयत्नेन स्थापनं, तथा 'बालममत्वं' लघौ शिष्ये ममत्वकरणं मनागितिगम्यं, एषः 'अणुः' अति चारो भवतीति योज्यं । तथा 'लोभात्' लोभपरिणामात् 'द्रव्यादीनां हिरण्यादीनां 'ग्रहणं'उपादानं 'चः' पुन-15 म रधिकधारणं-उपधेर्गणनपरिमाणाभ्यामतिरिक्तस्य धारणं-सङ्ग्रहः बादरो भवतीति, तत्र ज्ञानाद्युपकरणं मुक्त्वा इति ज्ञेयं, तस्य ह्यधिकत्वेऽपि न दोषः, यतः-“पञ्चमगंमि अ सुहुमो, अइआरो एस होइ णायवो । कागाइसालणरक्षण, कप्पट्टगरक्खणममत्ते॥१॥” कल्पस्थको-बाल इति तद्वृत्तिः। “दवाइआण गहणं, लोभा पुण || बायरो मुणेअघो। अइरित्तधारणं वा, मोत्तुं णाणाइ उवयारं ॥१॥” इति, अत्रायं भावा-निष्कारणं द्रव्यग्रहण|परिणामेतिचारः, कारणे तु ग्रहणेऽपि नातिचार इति, यत उक्तं स्थानाङ्गे बृहत्कल्पे च-"अट्ठजाइअं समणि Jain Education in a For Private & Personel Use Only KOTww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy