________________
धर्मग्र अधिकारः
३
॥१३८॥
Jain Education In
esesese
णायो । पयलाइ होइ पढमो, कोहादभिभासणं बीओ ॥ १ ॥ ॥ १५० ॥ इत्युक्ता द्वितीयव्रतातिचाराः, अथ तृतीयस्य तानाह
एवं तृतीयेऽदत्तस्य, तृणादेर्ग्रहणादणुः । क्रोधादिभिर्वादरोऽन्यसचित्ताद्यपहारतः ॥ ५० ॥
'एवं' पूर्वोक्तरीत्या सूक्ष्मबादरभेदेन द्विविध इत्यर्थः 'तृतीये' अस्तेयव्रते प्रक्रमादतिचारो भवतीति शेषः । तत्र 'अणुः' सूक्ष्मः 'अदत्तस्य' खाम्यादिनाऽप्रदत्तस्य 'तृणादेर्ग्रहणाद्' अनाभोगेनाङ्गीकरणाद्भवति, तत्र तृणं प्रसिद्धं, आदिशब्दाडुगलच्छारमल्लकादेरुपादानं, अनाभोगेन तृणादि गृह्णतोऽतिचारो भवति, आभोगेन त्वना| चार इति भावः । तथा 'क्रोधादिभिः' कषायैः 'अन्येषां' साधर्मिकाणां चरकादीनां गृहस्थानां वा संबन्धि 'सचि त्तादि' सचित्ताचित्तमिश्रवस्तु तस्यापहारतः - अपहरणपरिणामाद्वादरोऽतिचारो भवतीति संबन्धः, यतः - "तइअंमिवि एमेव य, दुविहो खलु एस होइ विण्णेओ । तणडगलछारमल्लग, अविदिन्नं गिण्हओ पढमं ॥ १ ॥ " अनाभोगेनेति तद्वृत्तिलेशः । “साहम्मिअन्नसाहम्मिआण गिहिआण कोहमाईहिं । सच्चित्ताइ अवहरओ, परिणामो होइ बीओ उ ॥ १ ॥" साधर्मिकाणां - साधुसाध्वीनां, अन्यसधर्माणां - चरकादीनामिति तद्वृत्तिरिति ॥ १२१ ॥ उक्तास्तृतीयवतातिचाराः, अथ चतुर्थस्य तानाहब्रह्मव्रतेऽतिचारस्तु, करकर्मादिको मतः । सम्यक्तदीयगुतीनां तथा चाननुपालनम् ॥ ५१ ॥
For Private & Personal Use Only
महाव्रतातिचाराः
॥१३८॥
www.jainelibrary.org