________________
आद्यव्रते ह्यतीचारा, एकाक्षादिवपुष्मताम् । सङ्घट्टपरितापोपद्रावणाद्याः स्मृता जिनैः ॥ ४८॥
एकं स्पर्शनलक्षणमिन्द्रियं येषां ते एकाक्षाः-पृथिव्यादयः पञ्च, आदिशब्दाद् द्वित्रिचतुष्पञ्चेन्द्रियग्रहः, तथा 21 वपुः-शरीरं वर्तते येषां ते वपुष्मन्तो-देहिनस्तत एकाक्षादयश्च ते वपुष्मन्तश्चेति समासस्तेषामेकेन्द्रियादिज-18 न्तूनामित्यर्थः 'सङ्घः' स्पर्शः 'परितापः' परितस्तापोत्पादनं 'उपद्रापणं महत्पीडाकरणं तदाद्या अतिचाराः-पूर्वोक्तखरूपाः आद्यव्रते-अहिंसाख्ये 'जिनैः' अर्हद्भिः स्मृताः'प्रोक्ता इत्यन्वयः तदुक्तं पञ्चवस्तुके-“पढ-18 मंमी एगिदिअविगलिंदिपणिदिआण जीवाणं । संघट्टणपरिआवणमुद्दवणाईणि अइआरा ॥१॥"॥ ११९॥ इत्युक्ता आद्यव्रतातिचाराः, अथ द्वितीयव्रतस्य तानाहअसौ द्विधाणुस्थूलाभ्यां, तत्राद्यः प्रचलादितः। द्वितीयः क्रोधलोभादेर्मिथ्याभाषा द्वितीयके ॥ १९॥ _ 'द्वितीयके' मृषावादविरतिरूपे 'असौ' अतिचारः 'अणुस्थूलाभ्यां सूक्ष्मबादराभ्यां प्रकाराभ्यां 'द्विधा' द्विप्र10 कारो भवतीति शेषः। तत्र 'आद्यः' सूक्ष्मः 'प्रचलादितो निद्राविशेषादेर्मिथ्याभाषा-असत्यभाषणं भवति,81
यथा प्रचलसि किं दिवा ? इत्यादि चोदितः प्राह-नाऽहं प्रचलामी'त्यादि । क्रोधादेः-क्रोधलोभहास्यभयैर्मिथ्याभाषा द्वितीयो-बादरः परिणामभेदाद्भवतीति, यतः पञ्चवस्तुके-“बीअंमि मुसावाए, सो सुहुमो बायरो अश
For Private Personal Use Only
Jain Education
Www.jainelibrary.org