________________
१२
....भिवेऽपि यत्कायोत्सर्गकरणादिना कायस्य निश्चलताकरणं सर्वयोगनिरोधावस्थायां वा सर्वथा यत्कायचेष्टानिरो
चरणकरअधिकारः धनं सा प्रथमा १, गुरुमापृच्छय शरीरसंस्तारकभूम्यादिप्रतिलेखनाप्रमार्जनादिसमयोक्तक्रियाकलापपुरस्सरं
णसप्तत्योः शयनासनादि साधुना विधेयं, ततः शयनासननिक्षेपादानादिषु स्वच्छन्दचेष्टापरिहारेण नियता या कायचेष्टा भावनाः
सा द्वितीयेति २, उक्तं च-"उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते | ॥१३७॥ 16॥१॥शयनासननिक्षेपादानचङ्कमणेषु च । स्थानेषु चेष्टानियमः, कायगुप्तिस्तु सा परा ॥२॥” तथाऽभिग्रहा
द्रव्यक्षेत्रकालभावविषयाश्चतुर्विधा, इत्येतद्भेदकदंबकं क्रियते-मोक्षार्थिभिः साधुभिर्निष्पाद्यते इति 'करणं' |करणसंज्ञं भवति, एते भेदाः सप्ततिसङ्ख्याः करणसप्ततिसंज्ञाः स्युरित्यर्थः । करणं च प्रयोजने आपन्ने सति क्रियते चरणं तु नित्यानुष्ठानमिति चरणकरणयोर्भेदः, अत्राप्ययं विवेकः-एषणासमिती गतार्थत्वेऽपि पिण्ड| विशुद्धेः पृथगुपादानं शेषभेदेषु तस्याः प्राधान्यज्ञापनार्थमिति, उक्ता मूलगुणा उत्तरगुणाश्च । अथ तच्छेषमतीचाररक्षणलक्षणं प्रस्तुतधर्म प्रस्तौति-'एषा'मित्यादि, 'एषां मूलगुणोत्तरगुणानां, कीदृशानाम् ?-'अनतिचाराणां'S न विद्यतेऽतिचारा येषु ते (तथा) तेषामतिचाररहितानामित्यर्थः पालन-धारणं सापेक्षयतिधर्मो भवतीत्यन्वयः। अतिचाराणामेषां पालनोक्त्याऽतिचारज्ञानस्यावश्यकत्वात्तानेवाह-'ते त्वमी ति, 'ते' अतिचाराः, तुशब्दः पूर्व-1 ॥१३७॥ स्माद्विशेषणार्थः, 'अमी' वक्ष्यमाणा 'मता' उक्ता जिनैरिति शेषः ॥ ११८॥ तानेव प्रतिव्रतं दर्शयितुकामः | प्रथममहिंसावतातिचारानाह
JainEducation int
For Private
Personel Use Only