________________
राइआ चउहिं पच्छा अट्ठमं करेइत्ति” द्वादश प्रतिमाः॥ तथा, इन्द्रियाणां-स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणां निरोधः-खखविषयेभ्यो निवर्त्तनं इष्टानिष्टविषयेषु रागद्वेषाभाव इत्यर्थः । तथा प्रतिलेखनाः-प्रत्युपेक्षणास्ताश्च वस्त्रादिविषयाः पञ्चविंशतिर्व्याख्यातपूर्वाः । तथा गुसिर्गोपनमात्मसंरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः, ताश्च | मनोवाकायविषयभेदात् तिस्रः, तत्र मनोगुप्तिस्त्रिधा, आर्तरौद्रध्यानानुबन्धिकल्पनाजालवियोगः प्रथमा १,
शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिर्द्वितीया २, कुशलाकुशलमनोवृत्ति| निरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया ३, तदुक्तं विशेषणत्रयेण योगशास्त्रे-"विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तदुहर्मनोगुप्तिरुदाहृता ॥१॥” एवंविधं मनो गुप्तिरित्यर्थः। वाग्गुप्तिर्द्विधा-मुखनयनभूविकारामुल्याच्छोटनलेष्टुक्षेपहुंकृतादिसंज्ञावर्जनेन मौनावलम्बनं, संज्ञादिना हि प्रयोजनानि सूचयतो मौनं निष्फलमेवेत्येका १, वाचनप्रच्छनपरपृष्टव्याकरणादिषु लोकागमाविरोधेन मुखवस्त्रिकाच्छादितमुखस्य भाषमाणस्यापि वाग्नियन्त्रणं द्वितीया, तदुक्तं-"संज्ञादिपरिहारण, यन्मौनस्थावलम्बनम् ।।
वाग्वृत्तेः संवृतिर्वा या, सा वाग्गुप्तिरिहोच्यते ॥१॥" आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्य-16 18ग्भाषणं च स्वरूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्योर्भेदः,18
यदाह-"समिओ निअमा गुत्तो.गुत्तोसमिअत्तणमि भयणिज्जो कुसलवयमुईरंतो,जं वइगुत्तोवि समिओवि॥१॥" इति । अथ कायगुसिरपि द्विधा-चेष्टानिवृत्तिलक्षणा यथागमं चेष्टानियमलक्षणा च, तत्र परीषहोपसगोंदिसं-12
Jain Education Intel
For Private & Personel Use Only
Www.jainelibrary.org