SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ तत्र प्रव्रज्याहस्तूक्त एव । अथ पञ्चभिः श्लोकैर्योग्यगुरुमाहयोग्यो गुरुस्तु पूर्वोक्तगुणैः सङ्गत एव हि । विधिप्रपन्नप्रव्रज्य १ आसेवितगुरुक्रमः २ ॥ ८॥ अखण्डितव्रतो नित्यं ३, विधिना पठितागमः ४ । तत एवातिविमलबोधयोगाच्च तत्त्ववित् ५ ॥८१|| उपशान्तश्च ६ वात्सल्ययुक्तः प्रवचनेऽखिले७। सर्वसत्त्वहितान्वेषी ८, आदेय ९ श्चानुवर्तकः १० ॥८॥ गम्भीर ११ श्वाविषादी चोपसर्गादिपराभवे १२। तथोपशमलब्ध्यादियुक्तः १३ सूत्रार्थभाषकः १४ ॥३॥ खगुर्वनुज्ञातगुरुपद १५ श्चेति जिनैर्मतः । पादार्द्धगुणहीनौ च, योग्यौ तौ मध्यमावरौ ॥ ८४ ॥ पञ्चभिः कुलकम् 'योग्यो' 'गुरु' प्रव्राजकपदयोग्यः, तुशब्दः पूर्वस्माद्विशेषणार्थः, 'इति' अमुना दर्यमानप्रकारेण, जिन-19 मतः । स च यथा 'पूर्वोक्तगुणैः' प्रव्रज्याहगुणैः 'सङ्गतः' संयुक्त एव सन्, न पुनरन्यादृशोऽपि, तस्य स्वयं निगुणत्वेन प्रव्राज्यबीजनिक्षेपकरणायोगात्, किमित्याह-विधिप्रपन्नप्रव्रज्यः' विधिना वक्ष्यमाणक्रमेणाधिगतदीक्षः १। तथा आसेवितगुरुक्रमः' समुपासितगुरुचरणः, गुरुकुलवाससेवीत्यर्थः । तथा 'नित्यं प्रव्रज्याप्रतिपत्ति-18 प्रभृत्येवाखण्डितव्रतः-अविराधितचारित्रः३। तथा विधिना' यथोक्तयोगविधानेन 'पठितागमः' अधीतसूत्रः, Jan Education Interne For Private Personal Use Only sainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy