________________
धर्मसंग्रहे अधिकारः
३
॥६॥
दशैव भेदाः प्रव्रज्यानर्हास्ततस्त एवोक्ताः, शेषाः षट् तु दीक्षायोग्याः, तथा चोक्तम्- “वड्डिए चिप्पिए चेव, मंतओसहिउवहए । इसिसत्ते देवसत्ते अ, पव्वावेज्ज नपुंसए ॥ १ ॥” अस्यार्थः - यस्य बालत्वेऽपि छेदं दत्त्वा वृषणौ गालितौ स वर्द्धितकः १ । यस्य तु जातमात्रस्याङ्गुष्ठाङ्गुलीभिर्मर्द्दयित्वा तौ द्राव्येते स चिप्पितः । एतयो स्वकृते नपुंसकवेदोदयः सम्पद्यते २ । मनौषधिसामर्थ्यात् पुंवेदे स्त्रीवेदे वा समुपहते नपुंसकवेदः समुदेति ४। ऋषिदेवयोः शापात् तदुदयो जायते । ६ । एतान् षट् नपुंसकान् प्रब्राजयेदिति प्रव्रज्याई उक्तः । अत्राहननु पूर्व यतिधर्मार्हत्वं प्रस्तूय अत्र प्रव्रज्यार्हत्वस्य समापने कथं न पूर्वापरविरोधः ? इति चेत्, मैवं, परमार्थानभिज्ञानात्, यतिधर्मो ह्यत्राचाररूपः प्रक्रान्तः, तस्य प्रव्रज्यायाश्चैकार्थत्वात्, यत उक्तं पञ्चवस्तुके- "पव्वज्जा निक्खमणं, समया चाओ तहेव वेरग्गं । धम्मचरणं अहिंसा दिक्खाएगट्टिआई तु ॥ १ ॥” इति । ७८ । अथात्र यतिधर्मप्रस्तावनायां अवयवार्थबोधं विना समुदायार्थस्य दुर्बोधात् प्रथमं यतिपदवाच्यमाहव्यतिरेवंविधो भव्यो, गुरोर्योग्यस्य सन्निधौ । विधिप्रव्रजितः शुद्धव्यवहाराजिनैर्मतः ॥ ७९ ॥
'एवंविध' उक्तखरूपः प्रव्रज्यार्ह इत्यर्थः यो 'भव्यो' मुक्तिगमनार्हःप्राणी स ' योग्यस्य गुरोः' वक्ष्यमाणलक्षणस्य 'सन्निधौ' समीपे 'विधिना' वक्ष्यमाणेनैव 'प्रव्रजितो' गृहीतदीक्षः 'शुद्धव्यवहारतः (रात्)' शुद्धव्यवहारनयापेक्षया 'जिनैः' अर्हद्भिः यतिर्मतः - प्रज्ञसः । इत्थं च अर्होऽर्हसमीपे विधिप्रब्रजितो यतिरिति पर्यवसन्नम्,
Jain Education International
For Private & Personal Use Only
अवाठप्रव्रज्यत्वं
॥ ६॥
www.jainelibrary.org