________________
eseseseeeeeeeeeeeeee
माः-प्रतिज्ञा अभिग्रहप्रकारा इत्यर्थः, ताश्च मासिकी द्वैमासिकी त्रैमासिकी चातुर्मासिकी पञ्चमासिकी पाण्मासिकी सप्तमासिकी, प्रथमसतरात्रिंदिवा द्वितीयसप्तरात्रिंदिवा तृतीयसप्सरात्रिंदिवा अहोरात्रिकी एकरात्रिकी चेति द्वादश । यतः-"मासाईसत्ता पढमाबिइतइअसत्तरायदिणा । अहराइ एगराई भिक्खूपडिमाण बारसगं ॥१॥” इति । अयमासां भावार्थ:-भिक्षुः प्रतिमाः प्रतिपिपत्सुः प्रथमं जिनकल्पिकवत् पञ्चविधां तुलनां करोति, ततश्च योग्यः सन् प्रतिपद्यते, तद्यथा-"पडिवजह संपण्णो, संघयणधिईजुओ महासत्तो । पडिमाओं जिणमयंमी, सम्मं गुरुणा अणुण्णाओ॥१॥ गच्छे चिनिम्माओ, जा पुचा दस भवे असंपुण्णा । नवमस्स तइअवत्थु, होइ जहण्णो सुआभिगमो॥२॥” गच्छ एव तिष्ठन् निर्मातः-आहारादिविषये प्रतिमाकल्पपरिकमणि परिनिष्ठितः, तत्परिमाणं चैवम्-मासिक्यादिषु सप्तसु या यत्परिमाणा तस्यास्तत्परिमाणमेव परिकर्म, तथा वर्षासु नैताः प्रतिपद्यन्ते, न वा परिकर्म करोति. तत्राद्यद्वयमेकत्रैव वर्षे, तृतीयचतुथ्योवेकैकस्मिन् वर्षे, अन्यासां तु तिमृणामन्यत्र वर्षे प्रतिकर्म, अन्यत्र च प्रतिपत्तिरिति नवभिर्वराद्याः सप्त समाप्यन्त इति । “वोसट्टचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहीआ, भत्तं च अलेवयं तस्स ॥१॥ उद्धृताोषणापञ्चकमध्यादेकस्मिन् दिने एषणाद्विकग्रहणं एका भक्ते एका च पानक इति, भक्तं चालेपकृत् । “गच्छा विणिक्खमित्ता, पडिवजे मासिअं महापडिमं । दत्तगभोअणस्सा, पाणस्सवि एग जा मासा ॥१॥ पच्छा गच्छमुवेइ, एव दमासी तिमासि जा सत्त । नवरं दत्तीवडी. जा सत्त य सत्तमासीए ॥२॥ तत्तो अ अट्ठ
in Education inte
O
For Private Personel Use Only
alinelibrary.org