SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे । कथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तत्, बोधिरत्नं सुदुर्लभम् ॥३॥ राज्यं वा चक्रभृत्त्वं वा, शक्रत्वं वा न दुर्ल-2 चरणकरअधिकारःभम् । यथा जिनप्रवचने, बोधिरत्यन्तदुर्लभा ॥४॥ सर्वे भावाः सर्वजीवैः, प्राप्तपूर्वा अनन्तशः । बोधिन जातु- णसप्तत्योः चित्प्राप्ता, भवभ्रमणदर्शनात् ॥५॥" अथ धर्मखाख्यातताभावना यथा-"खाख्यातः खलु धर्मोऽयं, भगवद्भिर्जि-1 भावना नोत्तमैः । यं समालम्बमानो हि, न मजेद्भवसागरे ॥१॥ वाख्याततामेवाह-"संयमः सूनृतं शौचं, ब्रह्माकिञ्च॥१३५॥ नता तपः । क्षान्तिार्दवमृदुता, मुक्तिश्च दशधा स तु ॥२॥" अत्रायं भावः-संयमादिदशविधधर्मप्रतिपादनप्र कारेण भगवतामहतां खाख्यातधर्मत्वानुप्रेक्षणमेवेति धर्माणां गुणभावना, तदाख्यातॄणां भगवतामनुप्रेक्षानिमित्तं स्तुतिरिति, तथा च धर्मकथकोऽहन्निति भावनेत्येव पर्यवसन्नं । तथा-"पूर्वापरविरुद्धानि, हिंसादेः कारकाणि च । वचांसि चित्ररूपाणि, व्याकुर्वद्भिर्निजेच्छया ॥३॥ कुतीर्थिकैः प्रणीतस्य, सद्गतिप्रतिपन्थिनः । धर्मस्य सकलस्यापि, कथं खाख्यातता भवेत् ॥४॥ यच्च तत्समये कापि, दयासत्यादिपोषणम् । दृश्यते तद्बचोमात्रं, बुधैर्तेयं न तत्त्वतः॥५॥ यत्मोद्दाममदान्धसिन्धुरघटं साम्राज्यमासाद्यते, यन्निःशेषजनप्रमोदजनकं संपद्यते वैभवम् । यत्पूर्णेन्दुसमद्युतिर्गुणगणः संप्राप्यते यत्परं, सौभाग्यं च विज़म्भते तदखिलं धर्मस्य लीलायितम्॥६॥ यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाकुलो, यत्पृथ्वीमखिलां धिनोति सलिलासारेण धाराधरः । यच्च | ॥१३५॥ न्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, तन्निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम् ॥ ७॥ अहेता कथितो धर्मः, सत्योऽयमिति भावयन् । सर्वसंपत्करे धर्मे, धीमान् दृढतरो भवेत् ॥८॥” इति भावनाः ॥ प्रति Jin Education ! For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy