________________
धर्मग यथा । तपोऽग्निना तप्यमानस्तथा जीवो विशुद्धयति ॥७॥” अत्र द्वादशविधतपःस्वरूपचिन्तनं ज्ञेयं । अथ लोकख- चरणकरअधिकारभावभावना यथा-"वैशाखस्थानस्थितकटिस्थकरयुगनराकृतिर्लोकः । भवति द्रव्यैः पूर्णः स्थित्युत्पत्तिव्ययाक्रा-राणसप्तत्योः
न्तैः॥१॥ ऊर्द्धतिर्यगधोभेदैः, स त्रेधा जगदे जिनैः । रुचकादष्टप्रदेशान्मेरुमध्यव्यवस्थितात् ॥२॥ नवयो-18 भावनाः
जनशत्यूर्द्धमधोभागेऽपि सा तथा । एतत्प्रमाणकस्तिर्यगलोकश्चित्रपदार्थभृत् ॥ ३॥ ऊर्द्धलोकस्तदुपरि, सप्तर॥१३३॥ ज्जुप्रमाणकः । एतत्प्रमाणसंयुक्तश्चाधोलोकोऽपि कीर्तितः ॥४॥ रत्नप्रभाप्रभृतयः, पृथिव्यः सप्त वेष्टिताः।
घनोदधिधनवाततनुवातैस्तमोघनाः ॥ ५॥ तृष्णाक्षुधावधाघातभेदनच्छेदनादिभिः । दुःखानि नारकास्तत्र, वेदयन्ते निरन्तरम् ॥६॥ प्रथमा पृथिवी पिण्डे, योजनानां सहस्रकाः। अशीतिर्लक्षमेकं च, तत्रोपरि सहस्र
कम् ॥७॥ अधश्च मुक्त्वा पिण्डस्य, शेषस्याभ्यन्तरे पुनः। भवनाधिपदेवानां, भवनानि जगुर्जिनाः॥८॥ 18 असुरी नागांस्तडितः, सुपर्णी अग्नेयोऽनिर्लाः । स्तनितान्चिंद्वीपंदिशः, कुमारान्ता दशेति ते ॥९॥ व्यवस्थि
ताः पुनः सर्वे, दक्षिणोत्तरयोर्दिशोः । तत्रासुराणां चर्मरो, दक्षिणावासिनां विभुः ॥१०॥ उदीच्यानां बलिनागकुमारादेर्यथाक्रमम् । धरणो भूतानन्दंश्च, हेरिहरिसंहस्तथा ॥११॥ वेणुदेवो वेणुदौली, चाग्निशिखाग्निमाणवी । वेलम्बः प्रभञ्जनश्च, सुघोषमहाघोषकौ ॥ १२॥ जलकान्तो जलप्रभस्ततः पूर्णो विशिष्टंकः। अमितो ॥१३३॥ मितवाहन इन्द्रा ज्ञेया द्वयोर्दिशोः ॥ १३ ॥ अस्या एव पृथिव्या उपरितने मुक्तयोजनसहस्रे । योजनशतमध उपरि च मुक्त्वाऽष्टसु योजनशतेषु ॥ १४ ॥ पिशाचाद्यष्टभेदानां, व्यन्तराणां तरखिनाम् । नगराणि भवन्त्यत्र,
Jain Educaton inte
For Private & Personel Use Only
www.jainelibrary.org