SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Jain Education भवहेतुक्रियात्यागः, स पुनर्भावसंवरः ॥ २ ॥ अस्यार्थः - कर्मपुद्गलानामाश्रवद्वारेणादानं प्रवेशनं तस्य यरिछ| यतेऽनेनेति छेदः स द्रव्याणां संवरो द्रव्यसंवरः, भावसंवरस्तु संसारकारणभूतायाः क्रियाया आत्मव्यापार| रूपायास्त्याग इति । कषायविषयादीनामशुभकर्महेतूनां प्रतिपक्षभूतानुपायानाह - "येन येन छुपायेन, रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ॥ ३॥ उपाया यथा - "क्षमया मृदुभावेन, ऋजु| त्वेनाप्यनीहया । क्रोधं मानं तथा मायां, लोभं रुन्ध्याद्यथाक्रमम् ॥४॥" विषयाणां प्रतिपक्षतः क्षयमाह - "असंयमकृतोत्सेकान्, विषयान् विषसंनिभान् । निराकुर्यादखण्डेन, संयमेन महामतिः ॥ ५ ॥” प्रमादाविरतीनां प्रतिपक्षानाह - "तिसृभिर्गुप्तिभिर्योगान्, प्रमादं चाप्रमादतः । सावद्ययोग हानेनाविरतिं चापि साधयेत् ॥ ६ ॥ अथ मिथ्यात्वार्त्तरौद्राणां प्रतिपक्षानाह - "सद्दर्शनेन मिथ्यात्वं, शुभस्यैर्येण चेतसा । विजयेतार्त्तरौद्रे च, संवरार्थ | कृतोद्यमः ॥७॥ अथ निर्जरा भावना यथा-"संसारबीजभूतानां, कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा, | सकामा कामवर्जिता ॥ १ ॥ ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् । पाकः स्वत उपायाच्च, कर्मणां स्था| यथाऽऽम्रवत् ॥ २ ॥ कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि, सकामा शमिनां मता ॥ ३ ॥ एकेन्द्रियादिजन्तूनां संज्ञानरहितात्मनाम् । शीतोष्णवृष्टिदहनच्छेदभेदादिभिः सदा ॥ ४ ॥ कष्टं वेदयमानानां यः शाटः कर्मणां भवेत् । अकामनिर्जरामेनामामनन्ति मनीषिणः ॥ ५ ॥ तपःप्रभृतिभिर्वृद्धिं, | ब्रजन्ती निर्जरा यतः । ममत्वं कर्म संसारं हन्यात्तां भावयेत्ततः ॥ ६ ॥ सदोषमपि दीसेन, सुवर्ण बहिना For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy