SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१३२॥ Jain Education Int "मनोवाक्कायकर्माणि, योगाः कर्म शुभाशुभम् । यदास्रवन्ति जन्तूनामाश्रवास्तेन कीर्त्तिताः ॥ १ ॥ मैत्र्यादिवासितं चेतः, कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ॥ २ ॥” ( यतोऽन्यत्र ) "मैत्र्या सर्वेषु सत्त्वेषु, प्रमोदेन गुणाधिके । माध्यस्थ्येनाविनीतेषु, कृपया दुःखितेषु वा ॥१॥ सततं वासितं खान्तं, कस्यचित्पुण्य| शालिनः । वितनोति शुभं कर्म, द्विचत्वारिंशदात्मकम् ॥ २॥” इति । तथा-" शुभार्जनाय निर्मिथ्यं, श्रुतज्ञानाश्रितं | वचः । विपरीतं पुनर्ज्ञेयमशुभार्जनहेतवे ॥ ३॥ शरीरेण सुगुप्तेन, शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ ४॥ कषाया विषया योगाः, प्रमादाविरती तथा । मिथ्यात्वमार्त्तरौद्रं चेत्यशुभं प्रति हेतवः ॥५॥” नन्वेते बन्धं प्रति हेतुत्वेनोक्ताः, यदाह वाचकमुख्यः - " मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः” इति (तत्त्वा० अ०८-०१) तत्किमाश्रवभावनायां बन्धहेतूनामेतेषामभिधानं ?, सत्यं, आश्रवभावनेव बन्धभावनापि न महर्षिभिर्भावनात्वेनोक्ता, आश्रवभावनयैव गतार्थत्वात्, आश्रवेण ह्युपात्ताः कर्मपुद्गला आत्मना संबध्यमाना बन्ध इत्यभिधीयते, यदाह - "सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते, स बन्धः" (तत्त्वा० ९-सू०२) | स्यादित्यतोऽपि कर्मपुद्गलादानहेतावाश्रवे बन्धहेतूनामभिधानमदुष्टं, ननु तथापि बन्धहेतूनां पाठो निरर्थकः, नैवं, बन्धाश्रवयोरेकत्वेनोक्तत्वादाश्रवहेतूनामेवायं पाठ इति, सर्वमवदातमिति । अत्र च प्रतिकर्मप्रकृति असाधारणाश्रवभावनं योगशास्त्रान्तरश्लोककर्मग्रन्थादिभ्यो ज्ञेयं, संवरभावना यथा - " सर्वेषामाश्रवाणां तु, निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा, द्रव्यभावविभेदतः ॥ १ ॥ यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः । For Private & Personal Use Only चरणकरणसाती ॥१३२॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy