________________
धर्मसंग्रहे अधिकारः
३
॥१३२॥
Jain Education Int
"मनोवाक्कायकर्माणि, योगाः कर्म शुभाशुभम् । यदास्रवन्ति जन्तूनामाश्रवास्तेन कीर्त्तिताः ॥ १ ॥ मैत्र्यादिवासितं चेतः, कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ॥ २ ॥” ( यतोऽन्यत्र ) "मैत्र्या सर्वेषु सत्त्वेषु, प्रमोदेन गुणाधिके । माध्यस्थ्येनाविनीतेषु, कृपया दुःखितेषु वा ॥१॥ सततं वासितं खान्तं, कस्यचित्पुण्य| शालिनः । वितनोति शुभं कर्म, द्विचत्वारिंशदात्मकम् ॥ २॥” इति । तथा-" शुभार्जनाय निर्मिथ्यं, श्रुतज्ञानाश्रितं | वचः । विपरीतं पुनर्ज्ञेयमशुभार्जनहेतवे ॥ ३॥ शरीरेण सुगुप्तेन, शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ ४॥ कषाया विषया योगाः, प्रमादाविरती तथा । मिथ्यात्वमार्त्तरौद्रं चेत्यशुभं प्रति हेतवः ॥५॥” नन्वेते बन्धं प्रति हेतुत्वेनोक्ताः, यदाह वाचकमुख्यः - " मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः” इति (तत्त्वा० अ०८-०१) तत्किमाश्रवभावनायां बन्धहेतूनामेतेषामभिधानं ?, सत्यं, आश्रवभावनेव बन्धभावनापि न महर्षिभिर्भावनात्वेनोक्ता, आश्रवभावनयैव गतार्थत्वात्, आश्रवेण ह्युपात्ताः कर्मपुद्गला आत्मना संबध्यमाना बन्ध इत्यभिधीयते, यदाह - "सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते, स बन्धः" (तत्त्वा० ९-सू०२) | स्यादित्यतोऽपि कर्मपुद्गलादानहेतावाश्रवे बन्धहेतूनामभिधानमदुष्टं, ननु तथापि बन्धहेतूनां पाठो निरर्थकः, नैवं, बन्धाश्रवयोरेकत्वेनोक्तत्वादाश्रवहेतूनामेवायं पाठ इति, सर्वमवदातमिति । अत्र च प्रतिकर्मप्रकृति असाधारणाश्रवभावनं योगशास्त्रान्तरश्लोककर्मग्रन्थादिभ्यो ज्ञेयं, संवरभावना यथा - " सर्वेषामाश्रवाणां तु, निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा, द्रव्यभावविभेदतः ॥ १ ॥ यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः ।
For Private & Personal Use Only
चरणकरणसाती
॥१३२॥
www.jainelibrary.org